________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 676 // सूत्रम् देवदत्तः 16, इत्येतानि षोडश वचनानि, अमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां श्रुतस्कन्धः 2 परोक्षवचनमेव ब्रूयादिति / तथा स्त्र्यादिके दृष्टे सति स्त्र्येवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत्, एवं अनुविचिन्त्य चूलिका-१ निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा इत्येतानि पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा चतुर्थमध्ययनं भाषाजातम्, आयतनानि दोषस्थानानि उपातिक्रम्य अतिलङ्घय भाषां भाषेत / अथ स भिक्षुर्जानीयात् चत्वारि भाषाजातानि चतम्रो भाषा:, प्रथमोद्देशकः वचनविभक्तिः तद्यथा- सत्यमेकं प्रथम भाषाजातं यथार्थ- अवितथम्, तद्यथा-गौगौरेवाश्वोऽश्व एवेति 1, एतद्विपरीता तु मृषा द्वितीया, यथा / गौरश्वोऽश्वो गौरिति 2, तृतीया भाषा सत्यामृषेति, यत्र किञ्चित्सत्यं किञ्चिन्मृषेति, यथाऽश्वेन यान्तं देवदत्तमुष्ट्रेण 355-356 यातीत्यभिदधाति 3, चतुर्थी तु भाषा योच्यमाना न सत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका साऽत्रासत्याऽमृषेति भाषणविधिः 4 // स्वमनीषिकापरिहारार्थमाह सोऽहं यदेतद्ब्रवीमि तत्सवैरेव तीर्थकृद्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि- सर्वाण्यप्येतानि भाषाद्रव्याण्यचित्तानि वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्त्तत्वमावेदितम्, न ह्यमूर्तस्याकाशादेर्वर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तुशब्दस्यानित्यत्वमाविष्कृतम्, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ॥३५५॥साम्प्रतंशब्दस्य कृतकत्वाविष्करणायाह से भिक्खूवा० से जंपुण जाणिज्जा पुट्विंभासा अभासा भासिज्जमाणी भासा भासा भासासमयवीइक्वंताचणंभासिया भासा अभासा ३॥से भिक्खूवा० से जं पुण जाणिज्जा जा य भासा सच्चा 1 जा य भासा मोसा 2 जा य भासा सच्चामोसा ॥१॥जा य भासा असच्चाऽमोसा४, तहप्पगारंभासं सावजंसकिरियं कक्कसं कडुयं निट्ठरं फरुसं अण्हयकरिं छेयणकरिं भेयणकरिंपरियावणकरिं // 676 //