SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 672 // निक्षेपाः // अथ चतुर्थमध्ययनं भाषाजाताख्यम्। श्रुतस्कन्धः२ ॥प्रथमोद्देशकः॥ चूलिका-१ चतुर्थमध्ययनं उक्तं तृतीयमध्ययनम्, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने पिण्डवसत्यर्थं गमनविधिरुक्तः, भाषाजातम्, तत्र च गतेन पथि वा यादृग्भूतं वाच्यं न वाच्यं वा, अनेन सम्बन्धेनायातस्य भाषाजाताध्ययनस्य चत्वार्यनुयोगद्वाराणि प्रथमोद्देशकः भवन्ति, तत्र नामनिष्पन्ने निक्षेपे द्विपदं नाम तस्य निक्षेपनियुक्त्यनुगमे भाषाजातशब्दयोनिक्षेपार्थं नियुक्तिकृदाह नियुक्ति: 316 भाषाजातनि०- जह वक्त्रं तह भाषा जाए छक्कं च होइ नायव्वं / उप्पत्तीए 1 तह पज्जवं 2 तरे 3 जायगहणे 4 य॥३१६॥ शब्दयोयथा वाक्यशुद्ध्यध्ययने वाक्यस्य निक्षेपः कृतस्तथा भाषाया अपि कर्त्तव्यः, जातशब्दस्य तु षट्वनिक्षेपोऽयं ज्ञातव्यो नाम 1 स्थापना 2 द्रव्य 3 क्षेत्र 4 काल 5 भाव 6 रूपः, तत्र नामस्थापने क्षुण्णे, द्रव्यजातं तु आगमतो नोआगमतः, व्यतिरिक्तं नियुक्तिकारो गाथापश्चार्द्धन दर्शयति- तच्चतुर्विधम्, उत्पत्तिजातं 1 पर्यवजातं 2 अन्तरजातं 3 ग्रहणजातं 4, तत्रोत्पत्तिजातं नाम यानि द्रव्याणि भाषावर्गणान्त:पातीनि काययोगगृहीतानि वाग्योगेन निसृष्टानि भाषात्वेनोत्पद्यन्ते तदुत्पत्तिजातम्, यद्दव्यं / भाषात्वेनोत्पन्नमित्यर्थः 1, पर्यवजातं तैरेवं वाग्निसृष्टभाषाद्रव्यैर्यानि विश्रेणिस्थानि भाषावर्गणान्तर्गतानि निसृष्टद्रव्यपराघातेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यन्ते 2, यानि त्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिश्रितानि भाषापरिणामं भजन्ते तान्यन्तरजातमित्युच्यन्ते 3, यानि पुनर्द्रव्याणि निसृष्टसमश्रेणिविश्रेणिस्थानि भाषात्वेन परिणतानि कर्ण // 672 // शष्कुलीविवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि द्रव्यत: क्षेत्रतोऽसङ्घयेयप्रदेशावगाढानि कालत एकद्वित्र्यादयावद (r) पिण्डविशुद्ध्यर्थं (मु०)। (r) अनेन च सम्ब० (मु०)। (c) त्युच्यते (प्र०)। 0 द्रव्याणि समश्रेणि (मु०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy