________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 657 // श्रुतस्कन्धः 2 चूलिका-१ तृतीयमध्ययन ईर्या, प्रथमोद्देशकः सूत्रम् 336-337 विहारप्रतिषेधः दूइन्जिन // सूत्रम् 336 // अथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु पर्युषितेषु गतेषु गमनं विधेयम्, तत्रापि यद्यन्तराले पन्थान: साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागता:समागमिष्यन्ति वा तत: समस्तमेव मार्गशिरं यावत्तत्रैवस्थेयम्, तत ऊर्द्ध यथा तथाऽस्तुनस्थेयमिति॥एवमेतद्विपर्ययसूत्रमप्युक्तार्थम् / / 336 // इदानीं मार्गयतनामधिकृत्याह से भिक्खूवा० गामाणुगामं दूइज्जमाणे पुरओ जुगमायाए पेहमाणे द₹ण तसे पाणे उद्घट्टपादंरीइज्जा साहट्टपायरीइजा वितिरिच्छं वा कट्ठ पायं रीइजा, सइ परक्कमे संजयामेव परिक्कमिज्जा नो उज्जुयंगच्छिज्जा, तओ संजयामेव गामणुगामं दूइज्जिज्जा १॥से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाणाणि वा बी० हरि० उदए वा मट्टिआ वा अविद्धत्थे सइ परक्कमे जाव नो उज्जुयंगच्छिज्जा, तओ संजया० गामा० दूइजिज्जा / / सूत्रम् 337 // स भिक्षुर्यावद् ग्रामान्तरं गच्छन् पुरतः अग्रत: युगमात्रं चतुर्हस्तप्रमाणं शकटोद्धिसंस्थितं भूभागं पश्यन् गच्छेत्, तत्र च पथि दृष्ट्वा त्रसान् प्राणिन: पतङ्गादीन् उद्धटुत्ति पादमुद्धृत्याग्रतलेन पादपातप्रदेशं वाऽतिक्रम्य गच्छेत्, एवं संहृत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पार्णिकया गच्छेत्, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत्, अयं चान्यमार्गाभावे विधिः, सति त्वन्यस्मिन् पराक्रमे- गमनमार्गे संयतः संस्तेनैव पराक्रमेत् गच्छेत् न / ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति // 337 // किंच से इत्यादि, उत्तानार्थम् // अपि च // 657 //