SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 654 // श्रुतस्कन्धः 2 चूलिका-१ तृतीयमध्ययनं ईर्या, प्रथमोद्देशकः नियुक्तिः 311-314 उद्देशाधिकारः चरणेर्या, चरणं गतिर्गमनमित्यर्थः, तच्च श्रमणस्य कथं केन प्रकारेण भावरूपं गमनं निर्दोष भवति? इति // आह नि०- आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं / भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु / / 311 // आलम्बनं प्रवचनसङ्घगच्छाचार्यादिप्रयोजनं कालः साधूनां विहरणयोग्योऽवसरः मार्ग: जनै: पद्भ्यां क्षुण्णः पन्था: यतना उपयुक्तस्य युगमात्रदृष्टित्वम्, तदेवमालम्बनकालमार्गयतनापदैरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडशविधं गमनं भवति॥ 311 // तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह नि०- चउकारणपरिसुद्धं अहवा वि होज्न कारणज्जाए। आलंबणजयणाए काले मग्गे य जइयव्वं // 312 / / चतुर्भिः कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा- आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवाऽकालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनं भवति, एवंभूते च मार्गे साधुना यतितव्यमिति // 312 // उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याह नि०- सव्वेवि ईरियविसोहिकारगा तहवि अत्थि उ विसेसो। उद्देसे उद्देसे वुच्छामि जहक्कम किंचि // 313 // सर्वेऽपि त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रमं किञ्चिद्वक्ष्याम इति / / 313 // यथाप्रतिज्ञातमाह नि०- पढमे उवागमण निग्गमो य अद्धाण नावजयणा य। बिइए आरूढ छलणं जंघासंतार पुच्छा य॥३१४॥ * प्रथमोद्देशके वर्षाकालादावुपागमनं- स्थानं तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्य छलनं- प्रक्षेपणं व्यावय॑ते, जङ्घासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना // 654 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy