SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 653 // | श्रुतस्कन्धः 2 चूलिका-१ | तृतीयमध्ययन ईर्या, | प्रथमोद्देशकः नियुक्तिः | 308-310 ईर्यानिक्षेपः ॥अथ तृतीयमध्ययनं ईर्याख्यम्॥ ॥प्रथमोद्देशकः॥ उक्तं द्वितीयमध्ययनम्, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः- इहाद्येऽध्ययने धर्मशरीरपरिपालनार्थं पिण्डः प्रतिपादितः, स चावश्यमैहिकामुष्मिकापायरक्षणार्थं वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थं गमनं विधेयम्, यद्यथा च यदा यथा च विधेयं यथा चन विधेयमित्येतत्प्रतिपाद्यम्, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनुगमे नामनिक्षेपणार्थं नियुक्तिकृदाह नि०- नाम 1 ठवणाइरिया 2 दव्वे 3 खित्ते 4 य काल 5 भावे६ य। एसो खलु इरियाए निक्लेवो छव्विहो होइ॥ 308 // कण्ठ्यम् / / ३०८॥नामस्थापने क्षुण्णत्वादनादृत्य द्रव्येर्याप्रतिपादनार्थमाह नि०-दव्वइरियाओ तिविहा सचित्ताचित्तमीसगा चेव। खित्तंमि जंमि खित्ते काले कालो जहिं जोउ?॥३०९॥ तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य- वायुपुरुषादेव्यस्य यद्गमनं सा सचित्तद्रव्ये, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्या वा वर्ण्यते, एवं कालेाऽपि द्रष्टव्येति ॥३०९॥भावेर्याप्रतिपादनायाह नि०-भावइरियाओ दुविहा चरणरिया चेव संजमरिया य।समणस्स कहंगमणं निहोसं होइ परिसुद्धं ? // 310 // भावविषयेर्या द्विधा-चरणेर्या संयमेर्याच, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानम्, यदिवाऽसङ्खयेयेषु संयमस्थानेष्वेकस्मासंयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणेर्या तु अभ्र वभ्र मभ्र चर गत्यर्थाः चरते वे ल्युट् चरणं तद्रूपेर्या // 653 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy