________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 645 // मासमेकं वर्षासु चतुरो मासानवस्थानमिति, एवमुक्तः कदाचित्परो ब्रूयात्- नैतावन्तं कालं ममात्रावस्थानं वसतिर्वा, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्-यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं ग्रहीष्यामः, ततः परेण विहरिष्याम इत्युत्तरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणम्, यतस्तत्र कार्यार्थिनः केचनागच्छन्ति अपरे कृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः साधुपरिमाणं न कथनीयमिति भावार्थः // 312 // किञ्च से भिक्खूवा० जस्सुवस्सएसंवसिज्जा तस्स पुव्वामेव नामगुत्तंजाणिज्जा, तओपच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा 4 अफासुयं जाव नो पडिगाहेजा। सूत्रम् 313 / / सुगमम्, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यम्, तत्परिज्ञानाच्च सुखेनैव प्राघूर्णिकादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति // 313 // किञ्च से भिक्खूवा० से जं० ससागारियं सागणियं सउदयं नो पन्नस्स निक्खमणपवेसाए जावऽणुचिंताए तहप्पगारे उवस्सए नो ठा०॥ सूत्रम् 314 // स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-ससागारिकंसाग्निकं सोदकम्, तत्रस्वाध्यायादिकृते स्थानादिन विधेयमिति // 314 // तथा से भिक्खूवा० से जं० गाहावइकुलस्स मज्झमझेणं गंतुं पंथए पडिबद्धंवा नो पन्नस्स जाव चिंताए तह उ० नो ठा०॥सूत्रम्३१५॥ यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बह्वपायसम्भवान्न स्थातव्यमिति // 315 // तथा श्रुतस्कन्धः२ चूलिका-१ | द्वितीयमध्ययन शय्यैषणा, तृतीयोद्देशकः सूत्रम् 313 | शय्यातरपिण्डवर्जनम् | सूत्रम् 314-315 वसतौ अस्थानम् // 645