________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 625 // मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति / क्षेत्र मिति तु क्षेत्रशय्या, सा चल श्रुतस्कन्धः 2 यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्नृतुबद्धादिके काले क्रियते॥३०२॥ तत्र सचित्तद्रव्यशय्योदाहरणार्थमाह- चूलिका-१ | द्वितीयमध्ययनं नि०- उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा / एयं तु उदाहरणं नायव्वं दव्वसिज्जाए।३०३।। शय्यैषणा, अस्या भावार्थ: कथानकादवसेयः, तच्चेदं- एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानौ विषमप्रदेशे पल्लिं निवेश्य प्रथमोद्देशकः नियुक्तिः चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातस्ताभ्यां च प्रतिपन्नः, तया चल 303-304 वल्गुमत्योक्तं- यथा नायं भद्रकः, अत्र वसन् यदा तदाऽयमस्माकं पल्लिविनाशाय भविष्यत्यतो नि ट्यते, ततस्ताभ्यां | शय्यानिक्षेपाः तद्वचनानि टितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा- नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव वल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गौ नैमित्तिको, सा तयोर्भक्त्या गौतमंपूर्वनैमित्तिकं निर्धाटितवती, अतस्तत्प्रद्वेषात्प्रतिज्ञामादाय सर्षपान् वपन्निर्गतः, सर्षपाश्चवर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति // ३०३॥भावशय्याप्रतिपादनार्थमाह नि०-दुविहा य भावसिज्जा कायगए छव्विहे य भावंमि / भावे जो जत्थ जया सुहदुहगन्भाइसिज्जासु॥३०४॥ द्वे विधे- प्रकारावस्याः सा द्विविधा, तद्यथा- कायविषया षड्भावविषया च, तत्र यो जीवः यत्र औदयिकादौ भावे यदा यस्मिन् काले वर्त्तते सा तस्य षड्भावरूपा भावशय्या,शयनं शय्या स्थितिरितिकृत्वा, तथा स्त्र्यादिकायगतो गर्भत्वेन स्थितो यो जीवस्तस्य स्त्र्यादिकाय एव भावशय्या, यतः स्त्र्यादिकाये सुखिते दुःखिते सुप्ते उत्थिते वा तादृगवस्थ एव तदन्तर्वर्ती जीवो / / 625 //