________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 56 // जीवलक्षणान्युपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनु श्रुतस्कन्धः१ गतत्वान्मनुष्यवत्सचित्ता पृथिवीति / ननु च तदिदमसिद्धमसिद्धेन साध्यते, तथाहि-न [पयोगादीनि लक्षणानि पृथिवीकायेषु प्रथममध्ययन शस्त्रपरिज्ञा, व्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद्, अव्यक्तानि तु विद्यन्ते, यथा कस्यचित्पुंसः हृत्पूरकव्यतिमिश्रमदिरातिपानपित्तोदया द्वितीयोद्देशकः कुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावता तस्याचिद्रूपता, एवमत्राप्यव्यक्तचेतनासम्भवोऽभ्युपगन्तव्यः, ननु नियुक्तिः 85-86 चात्रोच्छ्रासादिकमव्यक्तचेतनालिङ्गमस्ति, न चेह तथाविधं किञ्चिच्चेतनालिङ्गमस्ति, नैतदेवम्, इहापि समानजातीय पृथिवीलतोद्भेदादिकमर्शोमांसाङ्करवच्चेतनाचिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भवितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽ लक्षणम् भ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टर्तुपुष्पफलप्रदत्वेन स्पष्टं साधयिष्यते च, ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् / सचित्ता पृथिवीति स्थितम् / / 84 // ननु चाश्मलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमिति अत्राह नि०- अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिटुं / एवं जीवाणुगयं पुढविसरीरं खरं होइ / 85 // यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम्, एवं जीवानुगतं पृथिवीशरीरमपीति॥८५॥साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह नि०-जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते / सेसा तिन्निवि रासी वीसुं लोया असंखिज्जा // 86 // तत्र पृथिवीकायिकाश्चतु , तद्यथा-बादराः पर्याप्ता अपर्याप्ताश्च तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च, तत्र ये बादराः पर्याप्तकास्ते संवर्त्तितलोकप्रतरासंख्येयभागमात्रवर्त्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपिराशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तं सव्वत्थोवा बादरपुढविकाइया पज्जत्ता, बादरपुढवि Oमित्यत आह (मु०)। 0 सर्वस्तोका बादरपृथ्वीकायिकाः पर्याप्ताः बादरपृथ्वीकायिका - // 56 //