SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 55 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः | नियुक्तिः 83 पृथिवीभेदाः नियुक्तिः 84 पृथिवीलक्षणम् नि०- एएहिँ सरीरेहिं पच्चक्खं ते परूविया हुंति / सेसा आणागिज्झा चक्खुफासं न ते इंति / / 83 // एभिरसंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभेदभिन्नैः शरीरैस्ते शरीरिणः शरीरद्वारेण प्रत्यक्षं साक्षात् प्ररूपिताः ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः॥८३॥प्ररूपणाद्वारानन्तरं लक्षणद्वारमाह नि०- उवओगजोग अज्झवसाणे मइसुय अचक्खुदंसे य / अट्ठविहोदयलेसा सन्नुस्सासे कसाया य / / 84 // / तत्र पृथिवीकायादीनांस्त्यानाद्युदयाद्याच यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षणम्, तथा योगः- कायाख्य एक एव, औदारिकतन्मिश्रकार्मणात्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय व्याप्रियते, तथाऽध्यवसायाः- सूक्ष्मा आत्मनः परिणामविशेषाः, तेच लक्षणम्, अव्यक्तचैतन्यपुरुषमनःसमुद्भुतचिन्ताविशेषा इवानभिलक्ष्यास्तेऽभिगन्तव्याः, तथा साकारोपयोगान्तःपातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिका बोद्धव्याः, तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगता बोद्धव्याः, तथा ज्ञानावरणीयाद्यष्टविधकर्मोदयभाजस्तावद्वन्धमाजश्च, तथा लेश्या अध्यवसायविशेषरूपाः कृष्णनीलकापोततेजस्यश्चतस्रः ताभिरनुगताः, तथा दशविधसंज्ञानुगताः, ताश्चाहारादिकाः प्रागुक्ता एव, तथा सूक्ष्मोच्छ्रासनिःश्वासानुगताः, उक्तं च पुढविकाइया णं भंते! जीवा आणवन्ति वा पाणवन्ति वा ऊससन्ति वा नीससंति वा?, गोयमा! अविरहियं सतयं चेव आणवन्ति वा पाणवन्ति वा ऊससन्ति वा नीससन्ति वा कषाया अपि सूक्ष्माः क्रोधादयः / एवमेतानि Oन जं (मु०)। 0 पृथ्वीकायिका भदन्त! जीवा आनन्ति वा प्राणन्ति वा उच्छ्रुसन्ति वा निःश्वसन्ति वा? गौतम! अविरहितं सततमेव चानन्ति वा प्राणन्ति वा उच्छृसन्ति वा निःश्वसन्ति वा। // 55 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy