________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 54 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, द्वितीयोद्देशकः नियुक्तिः 80-82 पृथिवीभेदाः जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निवर्त्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग्खलरसादिभावेन परिणतिं नयति सतादृक्करणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छ्रासाभिधानाश्चतस्रो भवन्ति, एताश्चान्तर्मुहूर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः // 79 // यथा सूक्ष्मबादरादयो भेदाः सिद्ध्यन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह नि०- रुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं / जह दीसइ नाणत्तं पुढवीकाए तहा जाण / / 80 // __ यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः चूतादयो गुच्छा वृन्ताकीसल्लकीकर्पास्यादयः, गुल्मानि- नवमालिकाकोरण्टकादीनि, लताः पुन्नागाशोकलताद्याः, वल्लयः- त्रपुषीवालुङ्कीकोशातक्याद्याः, वलयानि-केतकीकदल्यादीनि // 80 // पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाह नि०- ओसहि तण सेवाले पणगविहाणे य कंद मूले य / जह दीसइ नाणत्तं पुढवीकाए तहा जाण // 81 // यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यः-शाल्याद्याः, तृणानि-दर्भादीनि, सेवालं- जलोपरि मलरूपम्, पनकः-काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः-सूरणकन्दादिः, मूलं- उशीरादीति // 81 // एते च सूक्ष्मत्वान्नैकद्व्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तूपलम्भ्यन्ते तद्दर्शयितुमाह नि०- इक्कस्स दुण्ह तिण्ह व संखिज्जाण व न पासिउँसक्का / दीसंति सरीराई पुढविजियाणं असंखाणं // 8 // स्पष्टा॥ 82 // कथं पुनरिदमवगन्तव्यं?, सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धेः, अधिष्ठातरि प्रतीतिर्गवाश्वादाविवेति, एतद्दर्शयितुमाह