________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 53 // विहाणाई संखेज्जाइं जोणिपमुहसयसहस्साई पज्जत्तयणिस्साए अपज्जत्तया वक्कमंति, जत्थेगो तत्थ नियमा असंखेज्जा, से तं श्रुतस्कन्धः 1 खरबायरपुढविकाइया, (प्र०२७ सू०१५) इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचित्ताऽचित्ता मिश्रा वा, तथा प्रथममध्ययन शस्त्रपरिज्ञा, पुनश्च शीता, उष्णा, शीतोष्णा वेत्येवमादिका द्रष्टव्येति // 77 // एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह द्वितीयोद्देशकः नि०- वण्णंमि य इक्किके गंधंमि रसंमि तह य फासंमि / नाणत्ती कायव्वा विहाणए होइ इक्किक्कं // 78 // | नियुक्तिः 78-79 वर्णादिके एकैकस्मिन् विधाने भेदे सहस्राग्रशो नानात्वं विधेयम्, तथाहि-कृष्णो वर्ण इति सामान्यम्, तस्य च भ्रमरा पृथिवीभेदाः ङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यम्, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्भसरकेसरकर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य / वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः // 78 // पुनरपि पर्याप्तकादिभेदाढ़ेदमाह नि०-जे बायरे विहाणा पज्जत्ता तत्तिआ अपज्जत्ता / सुहमावि हुंति दुविहा पज्जत्ता चेव अपज्जत्ता // 79 // यानि बादरपृथिवीकाये विधानानि भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानाम्, यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः / पर्याप्तिस्तु आहारसरीरिन्दियऊसासवओमणोऽहिनिव्वत्ती। होति जतो दलियाओ करणं पइ सा उ पज्जत्ती॥१॥ 8 // 53 // - विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति, यत्रैकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः। (r) आहारः शरीरमिन्द्रियाणि उच्छासो वचः मनः (एषां) अभिनिवृत्तिः / भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः // 1 //