SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 52 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, द्वितीयोद्देशकः नियुक्तिः 73 पृथिवीनिक्षेपाः नियुक्तिः 74-77 पृथिवीभेदाः नि०- पुढवी य सक्करा वालुगा य उवले सिला य लोणूसे / अय तंब तउअ सीसग रुप्प सुवण्णे य वइरे य / / 73 // नि०- हरियाले हिंगुलए मणोसिला सासगंजण पवाले / अब्भपडलब्भवालुअ बायरकाए मणिविहाणा / / 74 / / नि०- गोमेजए य रुयगे अंके फलिहे य लोहियक्खे य। मरगय मसारगल्ले भुयमोयग इंदनीले य॥७५॥ __ नि०- चंदप्पह वेरुलिए जलकंते चेव सूरकन्ते य / एए खरपुढवीए नामा छत्तीसइं होंति // 76 // अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः / अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयन मणिभेदाः प्रदर्शिताः, एताः स्पष्टा इति कृत्वा न विवृताः॥७३-७६॥ एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह नि०- वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेज्जा / णेगाइ सहस्साई हुंति विहाणंमि इक्विक्के // 77 // तत्र वर्णाः शुक्लादयः पञ्च, रसास्तिक्तादयः पञ्च, गन्धौ सुरभिदुरभी, स्पर्शाः मृदुकळशादयः अष्टौ, तत्र वर्णादिके एकैकस्मिन् योनिप्रमुखा योनिप्रभृतयः संख्येया भेदा भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्राणि, एकैकस्मिन् वर्णादिके विधाने भेदे भवन्ति, योनितो गुणतश्च भेदानामिति / एतच्च सप्तयोनिलक्षप्रमाणत्वात् पृथिव्या एवं सम्भावनीयमिति। उक्तं च प्रज्ञापनायां तत्थ णं जे ते पज्जत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो ®चंदण गेरुय हंसग भुयमोय मसारगल्ले य (प्र०)। भावनीयमिति (प्र०)। 0 तत्र येते पर्याप्तकाः एतेषां वर्णादेशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राग्रशो // 52
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy