SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति // सूत्रम् 12 // श्रुतस्कन्धः१ नियुक्ति एआवन्ती सव्वावन्ती ति, एतौ द्वौ शब्दौ मागधदेशीभाषाप्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव सर्वस्मिन् प्रथममध्ययन श्रीशीला लोके धर्माधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्वं प्रतिपादिताः कर्मसमारम्भाः क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन वृत्तियुतम् शस्त्रपरिज्ञा, प्रथमोद्देशकः श्रुतस्कन्धः 1 सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषांपूर्वत्रोपादानादिति भावः, तथाहि-आत्मपरोभयैहिकामुष्मिकातीतानागतवर्तमान सूत्रम् 12-13 // 49 // कालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति // 12 // एवं सामान्येन क्रियाविशेषाः जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदोपसंहारद्वारेण विरतिं प्रतिपादयन्नाह जस्सेते लोगंसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे // तिबेमि / / सूत्रम् 13 // इति प्रथमाध्ययने प्रथमोद्देशकः॥१॥ भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह- यस्य मुमुक्षो रेते पूर्वोक्ताः कर्मसमारम्भाः क्रियाविशेषाः कर्मणो वा- ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भा-उपादानहेतवस्ते च क्रियाविशेषा एव, परि- समन्ताज्ज्ञाता:- परिच्छिन्नाः। कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनिर्जपरिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतः, न ह्याभ्यां विना मोक्षो भवति, यत उक्तं ज्ञानाकियाभ्यां मोक्ष इति / इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदिवे ति, एतदहं ब्रवीमि यत्प्रागुक्तं यच्च वक्ष्ये तत्सर्व // 49 // भगवदन्तिके साक्षाच्छ्रुत्वेति शस्त्रपरिज्ञायां प्रथमोद्देशकः समाप्तः / /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy