________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 50 // ॥प्रथमाऽध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्ध: 1 उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयः प्रस्तूयते-अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, प्रथममध्ययनं शस्त्रपरिज्ञा, इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह- यदिवा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणमुपादेशि, यः द्वितीयोद्देशकः पुनरपरिज्ञातकर्मत्वान्मुनि भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषा | नियुक्ति: 68 पृथिवीनिक्षेपा: स्तित्वज्ञापनार्थमिदमुपक्रम्यत इति / अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निक्षेपादि अन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यन्निक्षेपादि सम्भवति तन्नियुक्तिकृद्दर्शयितुमाह नि०- पुढवीए निक्खेवो परूवणालक्खणं परीमाणं / उवभोगो सत्थं वेयणा य वहणा निवित्ती य॥६८॥ प्राग्जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच्च नाशङ्कनीयम्, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति / तत्र पृथिव्या नामादिनिक्षेपो वक्तव्यः,प्ररूपणा-सूक्ष्मबादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिकम्, परिमाणं-संवर्तितलोकप्रतरासंख्येयभागमात्रादिकम्, उपभोगः- शयनासनचङ्क्रमणादिकः, शस्त्रं-स्नेहाम्लक्षारादि, वेदना-स्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा, वधः- कृतकारितानुमतिभिरुपमईनादिकः, निवृत्तिरप्रमत्तस्य मनोवाक्कायगुप्त्याऽनु-8 // 50 // पमर्दादिकेति समासार्थः // 68 // व्यासार्थं तु नियुक्तिकृद्यथाक्रममाह ®निक्षेपादेरन्यत्र (मु०)।