SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 47 // ततोव्याध्यपनयनार्थ स्नेहापानलावकपिशितभक्षणादिषु क्रियासुप्रवर्त्तते, तथाऽल्पस्य सुखस्य कृतेऽभिमानग्रहाकुलितचेता श्रुतस्कन्धः१ बह्वारम्भपरिग्रहाद्ब्रह्वशुभं कर्मादत्ते, उक्तं च द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा / काले भिषग्निय- प्रथममध्ययनं शस्त्रपरिज्ञा, मिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवैहि शेषम् // 1 // तुष्ट्यर्थमन्नमिह यत्प्रणिधिप्रयोगसंत्रासदोषकलुषों नृपतिस्तु भुङ्क्ते। प्रथमोद्देशकः यनिर्भयः प्रशमसौख्यरतिश्च भैक्ष्य, तत् स्वादतां भृशमुपैति न पार्थिवान्नम्॥२॥भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासुवा मधुमदाङ्कुरि नियुक्ति: 67 तेक्षणासु। विश्रम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरतु सौख्यम् // 3 // तदेवमनवबुद्धतरुणकिशलयपलाश सूत्रम् 11 बन्धज्ञानम् चञ्चलजीवितरतयः कर्माश्रवेषु जीवितोपमर्दादिरूपेषु प्रवर्त्तन्ते, तथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्तन्ते, तत्र परिवन्दनं संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि-अहं मयूरादिपिशिताशनाद्बली तेजसा देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति माननं अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थ वा चेष्टमानः कर्माचिनोति। तथा पूजनं पूजाद्रविणवस्त्रानपानसत्कारप्रणामसेवाविशेषरूपं तदर्थं च प्रवर्त्तमानः क्रियासुकर्माश्रवैरात्मानं सम्भावयति, तथाहि वीरभोग्या वसुन्धरे ति मत्वा पराक्रमते, दण्डभयाच्च सर्वा प्रजा बिभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम्, अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थ्य चतुर्थी विधेया, परिवन्दनमाननपूजनाय जीवितस्य / कर्माश्रवेषु प्रवर्त्तन्त इति समुदायार्थः / न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति- जातिश्च मरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादर्थ्य चतुर्थी, एतदर्थं च प्राणिनः क्रियासु प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थं क्रौद्यारिवन्दनादिका:क्रिया विधत्ते, तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तांस्तानन्यजन्मनि पुनर्जातो 0 पुष्ट्यर्थ.....प्रयोगैः संत्रास (मु०)। 0 क्रोचारिः = कार्तिकेयः। // 47 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy