SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ बन्धज्ञानम् तत्र कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्याद्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे भगवता वीर- श्रुतस्कन्धः 1 श्रीआचाराङ्ग नियुक्ति प्रथममध्ययनं वर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् कथयति, सा च द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्र ज्ञपरिज्ञया सावधव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रथमोद्देशकः श्रुतस्कन्धः 1 प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावधयोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ॥१०॥अमुमेवार्थं नियुक्तिकृदाह- नियुक्ति: 67 // 46 // नि०- तत्थ अकारि करिस्संति बंधचिंता कया पुणो होइ / सहसम्मुइया जाणइ कोइ पुण हेतुजुत्तीए॥६७॥ दारं // सूत्रम् 11 तत्र कर्मणि क्रियाविशेषे, किम्भूत इत्याह- अकारि करिस्संति अकारीति कृतवान् करिस्सन्ति-करिष्यामीति, अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारितानुमत्योश्चोपसङ्ग्रहान्नवापि भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण बन्धचिन्ता कृता भवति बन्धस्योपादानमुपात्तं भवति, कर्म योगनिमित्तं . बध्यते इति वचनात्, एतच्च कश्चिन्जानाति आत्मना सह या सन्मतिः स्वमतिर्वाऽवधिमनःपर्यायकेवलजातिस्मरणरूपा तया जानाति, कश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुत्तयेति // 67 // अथ किमर्थमसौ कटुकविपाकेषु कर्माश्रवहेतुभूतेषु / क्रियाविशेषेषु प्रवर्त्तत इत्याह इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं / सूत्रम् 11 // तत्र जीवितमिति-जीवन्त्यनेनायुःकर्मणेति जीवितं-प्राणधारणम्, तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षासन्नवाचिनेदमा निर्दिशति, चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्यार्थे परिफल्गुसारस्य 8 // 46 // तडिल्लताविलसितचञ्चलस्य बह्वपायस्य दीर्घसुखार्थं क्रियासु प्रवर्त्तते, तथाहि-जीविष्याम्यहमरोगः सुखेन भोगान् भोक्ष्ये 0मीत्यात्मपरि० (मु०)। 0 सहसम्मइया (मु०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy