SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 45 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 9 योनिभ्रमणम् सूत्रम् 10 परिज्ञावर्णनम् वेदितव्यम्, विचित्रकर्मोदयाच्चापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति / द्रव्यक्षेत्रा-द्धाभावभिन्नमावर्त्तते बहुशः॥१॥नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च / पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि // 2 // सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् / तिर्यक्षु भयक्षुत्तनधादिदुःखं सुखं चाल्पम् // 3 // सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे / सुखमेव हि देवानां दुःखं स्वल्पं च मनसि भवम् // 4 // कर्मानुभावदुःखित एवं मोहान्धकारगहनवति / अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे // 5 // दुःखप्रतिक्रिया) सुखाभिलाषाच्च पुनरपि तु जीवः / प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः॥ 6 // बध्नाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म / तेनाथ पच्यते पुनरग्नेरग्निं प्रविश्येव // 7 // एवं कर्माणि पुनः पुनः स बध्नंस्तथैव मुञ्चश्च। सुखकामो बहुदुःखं संसारमनादिकं भ्रमति // 8 // एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् / संसारमहत्त्वाधार्मिकत्वदुष्कर्मबाहुल्यैः॥ 9 // आर्यो देशः कुलरूपसम्पदायुश्च दीर्घमारोग्यम् / यतिसंसर्गः श्रद्धा धर्मश्रवणं च मतितक्ष्ण्यम् // 10 // एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य / कुपथाकुलेऽहंदुक्तोऽतिदुर्लभो जगति सन्मार्गः॥ 11 // यदि वा योऽयं पुरुषः सर्वा दिशोऽनुदिशश्चानुसञ्चरति तथाऽनेकरूपा योनी: सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः अविज्ञातकर्मा अविज्ञातमविदितं कर्म- क्रिया व्यापारो मनोवाकायलक्षणः, अकार्षमहं करोमि करिष्यामीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावधो येन सोऽयमविज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदयाच्चानेकरूपयोन्यनुसन्धानं विरूपरूपस्पर्शानुभवश्च भवतीति // 9 // यद्येवं ततः किमित्यत आह तत्थ खलु भगवता परिण्णा पवेइआ। सूत्रम् 10 // // 45 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy