________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१| // 36 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशक: सूत्रम् 4 जातिस्मृत्यादिना ज्ञानम् ज्यामीत्येतत्परामृश्यते, जानीयाद् अवगच्छेद्, इदमुक्तं भवति-न कश्चिदनादौ संसृतौ पर्यटन्नसुमान् दिगागमनादिकंजानीयात्, यः पुनर्जानीयात्स एवं सह सम्मुइए त्ति सहशब्दः सम्बन्धवाची, सदिति प्रशंसायाम्, मतिर्ज्ञानम्, अयमत्र वाक्यार्थःआत्मना सह सदा या सन्मतिर्वर्त्तते तया सन्मत्या कश्चिन्जानीते, सहशब्दविशेषणाच्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, नपुनर्यथा वैशेषिकाणांव्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनि समवेतेति / यदि वा सम्मुइए ति स्वकीयया मत्या स्वमत्येति, तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमतः सहशब्दविशेषणम्, सहशब्दश्चासमस्त इति, सत्यपि चात्मनःसदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोध इति, सा पुनः सन्मतिः स्वमतिर्वाऽवधिमनःपर्यायकेवलज्ञानजातिस्मरणभेदाच्चतुर्विधा ज्ञेया, तत्रावधिमन:पर्यायकेवलानां स्वरूपमन्यत्र विस्तरेणोक्तम्, जातिस्मरणं त्वाभिनिबोधिक-ल विशेषः, तदेवं चतुर्विधया मत्याऽऽत्मनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः-तीर्थकृत्सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वम्, तस्य तेन वा व्याकरणं- उपदेशस्तेन जीवांस्तद्भेदांश्च पृथिव्यादीन् तद्गत्यागती च जानाति, अपरः पुन रन्येषां तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिके श्रुत्वा जानातीति, यच्च जानाति तत् सूत्रावयवेन दर्शयति-तद्यथा-8 पूर्वस्या दिश आगतोऽहमस्मि, एवंदक्षिणस्याः पश्चिमाया उत्तरस्या ऊर्ध्वदिशोऽधोदिशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरान्यातिशयज्ञानिबोधितानां च ज्ञातं भवति, तथा प्रतिविशिष्टदिगागमनपरिज्ञानान्तरमेषामेतदपि ज्ञातं भवति- यथाऽस्ति मेऽस्य शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण उपपादुको भवान्तरसंक्रातिभागसर्वगतो भोक्ता मूर्तिरहितोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति / स च द्रव्यकषाय®सम्मइयाए (मु०)। 0 सम्मइए (मु०)। 0 ज्ञानं (मु०)। // 36 //