SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 35 // श्रुतस्कन्धः 1| प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 4 जातिस्मृत्यादिना ज्ञानम् नात्माऽस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयादृते न सम्भवतीति प्रतिपन्नाः / तत्रानेन सामान्यात्माऽस्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः / सन्ति न शून्यं ब्रुवतस्तद-भावाच्चाप्रमाणं स्यात् ॥१॥प्रतिषेद्धप्रतिषेधौ स्तश्वेच्छून्यं कथं भवेत्सर्वम् ? / तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः // 2 // एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुत्प्रेक्ष्यमिति ॥३॥गतमानुषङ्गिकम्, प्रकृतमनुम्रियते तत्रेह एवमेगेसिं णो णायं भवई इत्यनेन केषाश्चिदेव संज्ञानिषेधात्केषाश्चित्तु भवतीत्युक्तं भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्तत्कारणपरिज्ञानस्य चेहाकिञ्चित्करत्वाद्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात्तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वात्सामान्यसंज्ञाकारणप्रतिपादनमनादृत्य विशिष्टसंज्ञायाः कारणं सूत्रकृद्दर्शयितुमाह से जं पुण जाणेज्जा सह सम्मुइयाए परवागरणेणं अण्णेसिंवा अंतिए सोच्चा तंजहा पुरत्थिमाओवा दिसाओ आगओ अहमंसि जाव अण्णयरीओ दिसाओ वा अणुदिसाओ आगओ अहमंसि, एवमेगेसिं जं णायं भवति- अत्थि मे आया उववाइए, जो इमाओ (दिसाओ) वा अणुदिसाओ अणुसंचइ सव्वाओ दिसाओ सव्वाओ अणुदिसाओं सोऽहं / / सूत्रम् 4 // से जं पुण जाणेज्जत्ति सूत्रं यावत् सोऽह मिति से इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते, यदित्यनेनापि यत्प्राग्निर्दिष्टं दिग्विदिगागमनम्, तथा कोऽहमभूवमतीतजन्मनि देवो नारकस्तैर्यग्योनों मनुष्यो वा? स्त्री पुमान्नपुंसको वा?, को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टोऽहं प्रेत्य देवादिर्भवि (r) संमइयाए (मु०)। (r) अण्णेसिं अंतिए वा (मु०)। अणुसंसरइ (इति पा०)10 दिसाओ अणुदिसाओ (मु०)। 7 नारकस्तिर्यग्योनो (मु०)। // 35 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy