SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 3 आत्मसिद्धिः पाखण्डिनश्च श्रुतस्कन्धः१ // 32 // शुभोऽशुभोवा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥इयं च मस्करिपरिव्राण्मतानुसारिणी प्राय इति / अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः?, वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तं च कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च / स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः?॥१॥स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः / नाहं कर्तेति भूतानां, यः पश्यति स पश्यति ॥२॥केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गहान्मयूरान् ? कश्चोत्पलेषु दलसन्निचयं करोति? को वा दधाति विनयं कुलजेषु पुस्सु?॥ तथाऽन्येऽभिदधते-सर्वमेतज्जीवादीश्वरात्प्रसूतम्, तस्मादेवस्वरूपेऽवतिष्ठते, कः पुनरयमीश्वरः?, अणिमाद्यैश्वर्ययोगादीश्वरः, उक्तं च अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेच्छुभ्रं वा स्वर्गमेव वा ॥१॥तथाऽन्ये ब्रुवते-न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि?, आत्मनः, कः पुनरयमात्मा?, आत्माद्वैतवादिनां विश्वपरिणतिरूपः उक्तञ्च एक एव हि भूतात्मा, देहे देहे व्यवस्थितः / एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् // 1 // तथा पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य मित्यादि / एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम्॥ तथाऽक्रियावादिनो-नास्तित्ववादिनः, तेषामपिजीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदद्वयेन तथा कालयदृच्छानियतिस्वभावेश्वरात्मभिः षड्भिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति, तद्यथा- नास्ति जीवःस्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धौ, एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदौ प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैव, सप्त द्वादशकाश्चतुरशीतिरिति 84 / अयमत्रार्थः ®द्वादशैते, (मु०)। // 32 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy