SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 1 // 31 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, प्रथमोद्देशकः सूत्रम् 3 आत्मसिद्धिः पाखण्डिनश्च कालतः 1 अस्ति जीवः स्वतोऽनित्यः कालत: 2 अस्ति जीवः परतो नित्यः कालतः 3 अस्ति जीवः परतोऽनित्यः कालतः 4 इत्येवं कालेन चत्वारो भेदा लब्धाः, एवं नियतिस्वभावेश्वरात्मभिरप्येकैकेन चत्वारों विकल्पा लभ्यन्ते, एते च पञ्च चतुष्कका विंशतिर्भवति, इयंच जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिभेदाभवन्ति, ततश्चनव विंशतयः शतमशीत्युत्तरं भवति 180 / तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति, न परोपाध्यपेक्षया ह्रस्वत्वदीर्घत्वे इव, नित्य:शाश्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात्, कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम्, उक्तं च कालः पचति भूतानि, कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥१॥ स चातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यङ्गयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रपक्षमासर्तु अयनसंवत्सरयुगकल्पपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतवर्तमानसर्वाद्धादिव्यवहाररूपः 1 / द्वितीयविकल्पे तु कालादेवात्मनोऽस्तित्वमभ्युपेयम्, किं त्वनित्योऽसाविति विशेषोऽयं पूर्वविकल्पात् 2 / तृतीयविकल्पे तु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते?, नन्वेतत्प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया ह्रस्वत्वपरिच्छेदो ह्रस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्त्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति 3 / चतुर्थविकल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः 4 / तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरिति, उच्यते, पदार्थानामवश्यंतया यद्यथाभवने प्रयोजककी नियतिः, उक्तं च प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां चत्वारश्चत्वारो (मु०)। होरात्र-मास० (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy