SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१] // 30 // अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद्, अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनु- श्रुतस्कन्धः१ मानेन, तस्याप्रत्यक्षत्वे तत्सामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायां प्रतिपाद्यमानायामनु प्रथममध्ययन शस्त्रपरिज्ञा, मानान्तर्भावाद् अन्यत्र (त्वे) च बाह्येऽर्थे सम्बन्धाभावादप्रमाणत्वम्, प्रमाणत्वे वा परस्परविरोधित्वान्नाप्यागमेन, प्रथमोद्देशकः तमन्तरेणापि सकलार्थोपपत्ते प्यर्थापत्त्या, तदेवं प्रमाणपञ्चकातीतत्वात्षष्ठप्रमाणविषयत्वादभाव एवात्मनः। प्रयोगश्चायं- सूत्रम् 3 नास्त्यात्मा, प्रमाणपञ्चकविषयातीतत्वात्, खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधासम्भवेनानुत्थानमेव आत्मसिद्धिः पाखण्डिनश्च सूत्रस्येति, एतत्सर्वमनुपासितगुरोर्वचः, तथाहि- प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, संविन्निष्ठा हि विषयव्यवस्थितयो, घटपटादीनामपि रूपादिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाच्च न भूतगुणश्चैतन्यमाशङ्कनीयम्, तेषां सदा सन्निधानसम्भवादिति, हेयोपादेयपरिहारोपादानप्रवृत्तेश्चानुमानेन परात्मनि सिद्धिर्भवतीति, एवमनयैव दिशोपमानादिकमपिस्वधियास्वविषये यथासम्भवमायोज्यम्, केवलं मौनीन्द्रेणानेनैवागमेन विशिष्टसंज्ञानिषेधद्वारेणाहमिति चात्मोल्लेखेनात्मसद्भावः प्रतिपादितः,शेषागमानांचानाप्तप्रणीतत्वादप्रामाण्यमेवेति / अत्र चास्त्यात्मेत्यनेन 8 क्रियावादिनः सप्रभेदा नास्तीत्यनेन चाक्रियावादिन एतदन्तपातित्वाच्चाज्ञानिका वैनयिकाश्च सप्रभेदा उपक्षिप्ताः, ते चामी असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा // 1 // तत्र जीवाजीवाश्रवबन्धपुण्यपापसंवरनिर्जरामोक्षाख्या नव पदार्थाः स्वपरभेदाभ्यां नित्यानित्यविकल्पद्वयेन च कालनियतिस्वभावेश्वरात्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रियावादिनाम्, एते चास्तित्ववादिनोऽभिधीयन्ते, इयमत्र भावना- अस्ति जीवः स्वतो नित्यः 0 प्रतिषेधाभावसम्भवेना० (मु०)। 0 स्वसंविन्निष्ठाश्च (मु०)। 0 ज्ञानिकवैनयिका (मु०)। // 30 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy