________________ श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, प्रथमोद्देशकः | नियुक्ति: 63 दिक्स्वरूपः | सूत्रम् 3 आत्मसिद्धिः | पाखण्डिनश्च श्रीआचाराङ्गा 8 केषाश्चिज्जीवानां ज्ञानावरणीयक्षयोपशमवतां यादृशी ज्ञानसंज्ञाऽस्ति केषाञ्चित्तु तदावृतिमतां न भवतीति / यादृग्भूता नियुक्ति संज्ञा न भवति तां दर्शयति- कोऽहं परस्मिन् लोके जन्मनि मनुष्यादिरासम्? अनेन भावदिग् गृहीता, कतरस्या वा दिशः श्रीशीला वृत्तियुतम् समायात इत्यनेन तु प्रज्ञापकदिगुपात्तेति, यथा कश्चिन्मदिरामदाघूर्णितलोललोचनोऽव्यक्तमनोविज्ञानोरथ्यामार्गनिपतितस्तश्रुतस्कन्धः१ च्छाकृष्टश्वगणावलिह्यमानवदनों गृहमानीतो मदात्यये न जानाति कुतोऽहमागतः? इति, तथा प्रकृतो मनुष्यादिरपीति // 29 // गाथार्थः // 63 // न केवलमेषैव संज्ञा नास्त्यपराऽपि नास्तीति सूत्रकृदाह अत्थि मे आया उववाइए, नत्थि मे आया उववाइए। के अहं आसी? के वा इओ चुए इह पेच्चा भविस्सामि? // सूत्रम् 3 // 9 अस्ति विद्यते ममे त्यनेन षष्ठ्यन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा जीवोऽस्तीति, किंभूतः?-औपपातिकः उपपातः-प्रादुर्भावो जन्मान्तरसंक्रान्तिः, उपपाते भव औपपातिक इति, अनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति च एवंभूता संज्ञा केषाश्चिदज्ञानावष्टब्धचेतसां न जायत इति / तथा कोऽहं नारकतिर्यग्मनुष्यादिः पूर्वजन्मन्यासं?, को वा इतो मनुष्यादेर्जन्मनः च्युतो विनष्टः इह संसारे प्रेत्य जन्मान्तरे भविष्यामि उत्पत्स्ये इति, एषा च संज्ञा न भवतीति // इह च यद्यपि सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षात्प्रज्ञापकदिगुपात्ताऽत्र तु भावदिगित्यवगन्तव्यम् / ननु चात्र संसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनि धर्मिण्यात्मनि सिद्धे सति भवति, सति धर्मिणि धर्माश्चिन्त्यन्त इति वचनात्, स च प्रत्यक्षादिप्रमाणागोचरत्वाद्दुरुपपादः, तथाहि- नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद्, 7 वतां ज्ञानसंज्ञा (मु०) गणापलिहय० (मु०)। 0 को वा देवादि: इतो (मु०)। O०प्रमाणगोचरातीतत्वा० (मु०)। // 29 //