SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 28 // षोडश देवनारकप्रक्षेपादष्टादश, एभिर्भावैर्भवनाजीवो व्यपदिश्यत इति भावदिगष्टादशभेदेति // 60 // अत्र च सामान्य- श्रुतस्कन्धः१ दिग्ग्रहणेऽपि यस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्ति प्रथममध्ययन शस्त्रपरिज्ञा, कृत्साक्षादर्शयति, भावदिक् चाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आह प्रथमोद्देशकः नि०- पण्णवगदिसट्ठारस भावदिसाओऽवि तत्तिया चेव / इक्विक्वं विंधेजा हवंति अट्ठारसऽट्ठारा // 61 // नियुक्तिः 61-63 नि०- पण्णवगदिसाए पुण अहिगारो एत्थ होइ णायव्वो। जीवाण पुग्गलाण य एयासु गयागई अस्थि // 2 // दिक्स्वरूपः प्रज्ञापकापेक्षयाऽष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रमाणा एव प्रत्येकं सम्भवन्तीत्यत एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन विन्ध्येत् ताडयेद्, अतोऽष्टादशाष्टादशकाः, ते च संख्ययात्रीणि शतानि चतुर्विंशत्यधिकानि भवन्तीति, एतच्चोपलक्षणं तापदिगादावपि यथासम्भवमायोजनीयमिति / क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु,8 तासामेकप्रदेशिकत्वाच्चतुष्प्रदेशिकत्वाच्चेति गाथाद्वयार्थः॥ 61-62 // अयं च दिक्संयोगकलापः अण्णयरीओ दिसाओ आगओ अहमंसी त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायं- इह दिग्ग्रहणात् प्रज्ञापकदिशश्चतम्रः पूर्वादिका ऊधिोदिशौ च परिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग्ग्रहणात्तु प्रज्ञापकविदिशो द्वादशेति, तत्रासंज्ञिनां नैषोऽवबोधोऽस्ति, संज्ञिनामपि केषाश्चिद्भवति केषाञ्चिन्नेति, यथाऽहममुष्या दिश:समागत इति / एवमेगेसिं णो णायं भवइत्ति एव मित्यनेन प्रकारेण, प्रतिविशिष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्, एतदेव नियुक्तिकृदाह नि०- केसिंचि नाणसण्णा अत्थि केसिंचि नत्थि जीवाणं / कोऽहं परंमि लोए आसी कयरा दिसाओ वा? // 63 // 0 औपपातिकवृत्त्याभिप्रायेणैष तृतीयसूत्रावतरणभागः, चूर्ण्यभिप्रायेण तु 'भविस्सामि' इति पर्यन्त उपसंहारः, भवति' इति तंजहा' इति चाधिकम् /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy