SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् // 33 // नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा?, न चात्मनस्ताहगस्ति किञ्चिल्लक्षणं श्रुतस्कन्धः१ येन सत्तां प्रतिपद्येमहि, नापि कार्य्यमणूनामिव महिध्रादि सम्भवति, यच्च लक्षणकार्याभ्यां नाधिगम्यते वस्तु तन्नास्त्येव, प्रथममध्ययन शस्त्रपरिज्ञा, यथा वियदिन्दीवरम्, तस्मानास्त्यात्मेति / द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभर्ति गगनारविन्दादिकं तत्परतोऽपि प्रथमोद्देशकः नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वार्वाग्भागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्व-8 सूत्रम् 3 आत्मसिद्धिः मध्यवसीयते, उक्तंच यावद्दृश्यं परस्तावद्भागः सचन दृश्यतेइत्यादि, तथा यदृच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा?, पाखण्डिनश्च अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदृच्छा, अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् / काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥१॥ सत्यं पिशाचाः स्म वने वसामो, भेरि कराग्रैरपि न स्पृशामः / यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति // 2 // यथा काकतालीयमबुद्धिपूर्वकम्, न काकस्य बुद्धिरस्ति- मयि तालं पतिष्यति, नापि तालस्याभिप्रायः- काकोपरि पतिष्यामि, अथ च तत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम्, एवं सर्वं जातिजरामरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति / एवं नियतिस्वभावेश्वरात्मभिरप्यात्मा निराकर्त्तव्यः॥ तथाऽज्ञानिकानां सप्तषष्टिर्भेदाः, ते चामी- जीवादयो नव पदार्था उत्पत्तिश्च दशमी सत् असद् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते न च विज्ञातैः प्रयोजनमस्ति, भावना चेयं-सन् जीव इति को वेत्ति? किंवा तेन ज्ञातेन?, असन् जीव इति कोजानाति? किंवा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि ®महीध्रः = पर्वतः। ॐ नाभिगम्यते वस्तु तन्नास्त्येव वियदिन्दीवरवत् (मु०)। 0 वियत् = आकाशः, इन्दीवरं = कमलम्। // 33 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy