________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 541 // |103-106 नामैकस्मिन्नहन्येकभक्तं विधाय पुनर्दिनद्वयमभुक्त्वा चतुर्थेऽयेकभक्तमेव विधत्ते, ततश्चाद्यन्तयोरेकभक्तदिनयोर्भक्तद्वयं श्रुतस्कन्धः१ मध्यदिवसयोश्च भक्तचतुष्टयमित्येवंषण्णां भक्तानां परित्यागात्षष्ठं भवति, एवं दिनादिवृद्ध्याऽष्टमाद्यायोज्यमिति, अथाष्टमेन नवममध्ययनं उपधानश्रुतं, दशमेनाथवा द्वादशमेनैकदा कदाचिद्भुक्तवान्, समाधिं शरीरसमाधानं प्रेक्षमाणः पर्यालोचयन् न पुनर्भगवतः कदाचिद्दौर्मनस्य चतुर्थोद्देशक: समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति // 101 // किं च- ज्ञात्वा हेयोपादेयं स महावीर: कर्मप्रेरणसहिष्णुर्नापि च पाप सूत्रम् कर्म स्वयमकार्षीत् न चाप्यन्यैरचीकरत् न च क्रियमाणमपरैरनुज्ञातवानिति // 102 // किंच (अनुष्टुप्) गामं पविसे नगरं वा घासमेसे कडं परट्ठाए। सुविसुद्धमेसिया भगवं आयतजोगयाए सेवित्था // सू०गा०१०३ // अदुवायसा रोगादिसहनम् दिगिंछत्ता जे अन्ने रसेसिणो सत्ता / घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए। सू०गा० 104 // अदुवा माहणं च समणं वा गामपिण्डोलगंच अतिहिं वा ।सोवागमूसियारिंवा कुकुरं वावि विट्ठियं पुरओ॥सू०गा० 105 // वित्तिच्छेयं वजन्तो तेसिमप्पत्तियं परिहरन्तो / मन्दं परक्कमे भगवं अहिंसमाणोघासमेसित्था॥सू०गा०१०६॥ ग्राम नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयेत्, परार्थाय कृतमित्युद्गमदोषरहितम्, तथा सुविशुद्धमुत्पादनादोषरहितम्, तथैषणा-8 दोषपरिहारेणैषित्वा- अन्वेष्य भगवानायतः-संयतो योगो- मनोवाक्कायलक्षण आयतश्चासौ योगश्चायतयोगो-ज्ञानचतुष्टयेन ब्लू सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं ग्रासैषणादोषपरिहारेण सेवितवानिति // 103 // किं च- अथ भिक्षां पर्यटतो भगवतः पथि वायसाः- काका दिगिंछ त्ति बुभुक्षा तयाऽऽर्ता बुभुक्षात ये चान्ये रसैषिणः-॥५४१॥ पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थ- अन्वेषणार्थं च ये तिष्ठन्ति तान् सततं- अनवरतं निपतितान् भूमौ / प्रेक्ष्य दृष्टा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहारार्थी पराक्रमते॥१०४॥ किं च- अथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा