SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 540 // | श्रुतस्कन्धः१ नवममध्ययन उपधानश्रुतं, चतुर्थोद्देशकः सूत्रम् (अनुष्टुप्) |99-102 रोगादिसहनम् कथमिति दर्शयति-तिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, अथ आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण-स्नेहरहितेन केन?- ओदनमन्थुकुल्माषेण ओदनं च- कोद्रवौदनादि मन्थु च- बदरचूर्णादिकं कुल्माषाश्च- माषविशेषा एवोत्तरापथे धान्यविशेषभूता: पर्युषितमाषा वा सिद्धमाषा वा ओदनमन्थुकुल्माषमिति समाहारद्वन्द्वस्तेनात्मानं यापयतीति सम्बन्ध इति // 98 // एतदेव कालावधिविशेषणतो दर्शयतुिमाह एयाणि तिन्नि पडिसेवे अट्ठ मासे य जावयं भगवं। अपिइत्थ एगया भगवं अद्धमासं अदुवा मासंपि॥सू०गा०९९॥अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्था ।राओवरायं अपडिन्ने अन्नगिलायमेगया भुजे॥सूगा०१००॥छट्टेण एगया भुजे अदुवा अट्ठमेण दसमेणं / दुवालसमेण एगया भुजे पेहमाणे समाहिं अपडिन्ने / सू०गा० १०१॥णच्चाणं से महावीरे नोऽविय पावगं सयमकासी। अन्नेहिं वाण कारित्था कीरंतंपि नाणुजाणित्था॥सूगा० 102 // एतानि ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्दिशति कस्यचिन्मन्दबुद्धः स्यादारेका यथा- त्रीण्यपि समुदितानि प्रतिसेवते इति, अतस्तद्वयुदासाय त्रीणीत्यनया सङ्घन्यया निर्देश इति, त्रीणि समस्तानि व्यस्तानि वा यथालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति- अष्टौ मासान् ऋतुबद्धसंज्ञकानात्मानं अयापयद्- वर्तितवान् भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान्न पीतवान् // 99 // अपि च-मासद्वयमपि साधिक अथवा षडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि रात्रोपरात्र मित्यहर्निशं विहृतवान्, किंभूतः?- अप्रतिज्ञः पानाभ्युपगमरहित इत्यर्थः, तथा अन्नगिलायन्ति पर्युषितं तदेकदा भुक्तवानिति // 100 // किं च- षष्ठेनैकदा भुङ्क्ते, षष्ठं हि 7 मन्थु (प्र०)। // 540
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy