________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 539 / / श्रुतस्कन्धः नवममध्ययन उपधानश्रुतं, चतुर्थोद्देशकः सूत्रम् (अनुष्टुप्) 95-98 रोगादिसहनम् अबहुवाई। सिसिरंमि एगया भगवं छायाए झाइ आसीय ॥सूगा० 97 // आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभितावे। अदु जावइत्थ लूहेणं ओयणमंथुकुम्मासेणं॥सू०गा०९८॥ अपि शीतोष्णदंशमशकाक्रोशताडनाद्याःशक्या: परीषहाः सोढुं न पुनरवमोदरताम्, भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेऽप्यवमौदर्यं न्यूनोदरतां शक्नोति कर्तुम्, लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते भगवांस्तु / तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसवेंदनीयादिभिर्भावरोगैन्यूनोदरतां करोति, अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्षन्ति येन भावरोगैः स्पृष्ट इत्युक्तं?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजा: कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव दर्शयति-सच भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलषति, न द्रव्यौषधाधुपयोगत: पीडोपशमं प्रार्थयतीति // 95 // एतदेव दर्शयितुमाह- गात्रस्य सम्यक् शोधनं संशोधनं-विरेचनं निःसोत्रादिभिस्तथा वमनं मदनफलादिभिः, चशब्द उत्तरपदसमुच्चयार्थो, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्नानं चोद्वर्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य भगवतो न / कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं परिज्ञाय ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पत इति // 96 // किं च-विरतो निवृत्तः केभ्यो?- ग्रामधर्मेभ्यो यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो रीयते संयमानुष्ठाने पराक्रमते, माहणे त्ति, किंभूतो भगवान्? असावबहुवादी, सकृव्याकरणभावाद्बहुशब्दोपादानम्, अन्यथा हि अवादीत्येव ब्रूयात्, तथैकदा शिशिरसमये स भगवांश्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति // 97 // किंच-सुब्व्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेष्वातापयति, (r) रीयति (प्र०)। // 539 //