SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 533 // श्रुतस्कन्धः१ नवममध्ययन उपधानश्रुतं, द्वितीयोद्देशकः सूत्रम् (अनुष्टुप्) 77-80 | वसतिः दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भगवांस्तूष्णीभावमेव भजते, क्वचिद्बहुतरदोषापनयनाय जल्पत्यपि, कथमिति, दर्शयति- अहं भिक्षुरस्मीति, एवमुक्ते यदि तेऽवधारयन्ति ततस्तिष्ठत्येव, अथाभिप्रेतार्थव्याघातात् कषायिता मोहान्धाःसाम्प्रतेक्षितयैवं ब्रूयुः, यथा- तूर्णमस्मात्स्थानान्निर्गच्छ, ततो भगवानचियत्तावग्रह इतिकृत्वा निर्गच्छत्येव, यदिवा न निर्गच्छत्येव भगवान् किंतु सोऽयमुत्तमः प्रधानो धर्म आचार इतिकृत्वा स कषायितेऽपि तस्मिन् गृहस्थे तूष्णीभावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव-न ध्यानात्प्रच्यवते // 76 // किं च जंसिप्पेगेपवेयन्ति सिसिरे मारुए पवायन्ते। तंसिप्पेगे अणगारा हिमवाए निवायमेसन्ति॥सू०गा०७७॥संघाडीओपवेसिस्सामो एहा य समादहमाणा। पिहिया व सक्खामो अइदुक्खे हिमगसंफासा॥ सू०गा०७८॥ तंसि भगवं अपडिन्ने अहे विगडे अहीयासए / दविए निक्खम्म एगया राओ ठाइए भगवंसमियाए॥सूगा०७९॥एस विही अणुक्वन्तो माहणेण मईमया। बहुसो अपडिण्णेण भगवया एवं रीयन्ति ॥सूगा०८०॥त्तिबेमि॥नवमस्य द्वितीय उद्देशकः 9-2 // यस्मिन् शिशिरदावप्येके त्वक्त्राणाभावतया प्रवेपन्ते दन्तवीणादिसमन्विताः कम्पन्ते, यदिवा प्रवेदयन्ति शीतजनितं दुःखस्पर्शमनुभवन्ति, आर्तध्यानवशगा भवन्तीत्यर्थः, तस्मिंश्च शिशिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वे अनगारा: तीर्थकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति-अङ्गारशकटिकामन्वेषयन्ति, प्रावारादिकं याचन्ते, यदिवाऽनगारा इति- पार्श्वनाथतीर्थप्रव्रजिता गच्छवासिन एव शीतार्दिता निवातमेषन्ति - घनशालादिकावसतीर्वातायनादिरहिताः प्रार्थयन्ति // 77 // किं च- इह सङ्घाटीशब्देन शीतापनोदक्षमं कल्पद्वयं त्रयं वा गृह्यते, ता:
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy