________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 532 // वसति: समिए फासाइं विरूवरूवाई। अरईरइं अभिभूय रीयइ माहणे अबहुवाई।सूगा०७४॥सजणेहिं तत्थ पुच्छिंसु एगचराविएगया श्रुतस्कन्धः१ राओ। अव्वाहिए कसाइत्था पेहमाणे समाहिं अपडिन्ने / सू०गा० 75 // अयमंतरंसि को इत्थ? अहमंसित्ति भिक्खु आहटु / नवममध्ययनं उपधानश्रुतं, अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ॥सू०गा०७६॥ द्वितीयोद्देशकः इहलोकेभवा ऐहलौकिका:- मनुष्यकृता:के ते?- स्पर्शाः दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् / सूत्रम् (अनुष्टुप्) दुःखविशेषानध्यासयति- अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलौकिकाः, 73-76 तद्विपर्यस्तास्तु पारलौकिकाः, भीमा भयानका अनेकरूपाः नानाप्रकाराः, तानेव दर्शयति-अपि सुरभिगन्धाः-स्रक्चन्दनादयो। दुर्गन्धाः-कुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, तथा क्रमेलकरसिताद्युत्थापितास्तांश्चाविकृतमना अध्यासयति अधिसहते, सदा सर्वकालं सम्यगितः समित:- पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान्दुःखविशेषानरतिं संयमे रतिं चोपभोगाभिष्वङ्गेऽभिभूय- तिरस्कृत्य रीयते संयमानुष्ठाने व्रजति, माहणे त्ति पूर्ववद् अबहुवादी अबहुभाषी, एकद्विव्याकरणं क्वचिन्निमित्ते कृतवानिति भावः॥७३-७४ // स भगवानर्द्धत्रयोदश पक्षाधिका:समा एकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थित: सन् जनैः लोकैः पृष्टः, तद्यथा-को भवान् ? किमत्र स्थितः? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा- एकाकिन एकदा- कदाचिद्रात्रावह्नि वा पप्रच्छुः, अव्याहृते च भगवता कषायिता: ततोऽज्ञानावृतदृष्टयो दण्डमुष्ट्यादिना ताडनतोऽनार्यत्वमाचरन्ति, भगवांस्तुसमाधि प्रेक्षमाणो धर्मध्यानोपगतचितः सन् सम्यक्तितिक्षते, किंभूतः?- अप्रतिज्ञो नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः // 75 // कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः- मध्ये कोऽत्र व्यवस्थित:?, एवं सङ्केतागता दुश्चारिणः पृच्छन्ति कर्मकरादयो वा, तत्र नित्यवासिनो // 532