SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 528 // 62-64 वीरध्यानम् स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदर्घाभूदिति ॥५८॥मूलगुणानाख्यायोत्तरगुणान् प्रचिकटयिषुराह- श्रुतस्कन्धः१ यथा येन प्रकारेण पृष्ट्वा वाऽपृष्ट्वा वा कृतं यथाकृतं आधाकादिनासौ सेवते, किमिति?- यत:सर्वश: सर्वैः प्रकारैस्तदासेवनेन / नवममध्ययनं उपधानश्रुतं, कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीत्- दृष्टवान्, अन्यदप्येवंजातीयकंन सेवत इति दर्शयति-यत्किञ्चित्पापकं- पापोपादानकारणं प्रथमोद्देशक: तद्भगवानकुर्वन् विकटं प्रासुकमभुत- उपभुक्तवान् // 59 // किंच-नासेवते च-नोपभुङ्क्ते च परवस्त्रं- प्रधानं वस्त्रं परस्य / सूत्रम् (अनुष्टुप्) वा वस्त्रं परवस्त्रं नासेवते, तथा परपात्रेऽप्यसौनाभुङ्क्त, तथा परिवापमानं- अवगणय्य गच्छति असावाहाराय सङ्खण्ड्यन्ते / / प्राणिनोऽस्यामिति सङ्खण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्क: कल्प इतिकृत्वा परीषह- उपसर्ग सहिष्णुता विजयार्थं गच्छतीति // 60 // किंच- आहारस्य मात्रां जानातीति मात्राज्ञः, कस्य?- अश्यत इत्यशनं- शाल्योदनादि पीयत इति पानं- द्राक्षापानकादि तस्य च, तथा नानुगृद्धो रसेषु विकृतिषु, भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिर्नासीत्, किं पुनः द्वितीयोद्देशकः प्रव्रजितस्येति?, तथा रसेष्वेव ग्रहणं प्रत्यप्रतिज्ञो, यथा- मयाऽद्य सिंहकेसरा मोदका एव ग्राह्या इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तु कुल्माषादौ सप्रतिज्ञ एव, तथाऽक्ष्यपि रजःकणुकाद्यपनयनाय नो प्रमार्जयेन्नापि च गात्रं मुनिरसौ कण्डूयते-काष्ठादिना गात्रस्य कण्डूत्यपनोदं न विधत्त इति // 61 // किं च___अप्पं तिरियं पेहाए अप्पिं पिट्ठओ पेहाए। अप्पं बुइए पडिभाणी पंथपेहि चरे जयमाणे ॥सू०गा०६२॥ सिसिरंसि अद्धपडिवन्ने तंवोसिज्ज वत्थमणगारे। पसारित्तु बाहुं परक्कमे नो अवलम्बियाण कंधंमि॥सू०गा०६३॥ एस विही अणुक्कन्तो माहणेण मईमया। // 528 // बहुसो अपडिन्नेण भगवया एवं रियंति॥सू०गा०६४॥त्तिबेमि // उपधानश्रुताध्ययनोद्देशः१॥९-१॥ अल्पशब्दोऽभावे वर्त्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, तथा मार्गादि केनचित्पृष्टः
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy