________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 527 // 58-61 उपसर्ग भगवांश्च-असौ वीरवर्द्धमानस्वाम्येवममन्यत- ज्ञातवान् सह उपधिना वर्त्तत इति सोपधिक:-द्रव्यभावोपधियुक्तः, हुरवधारणे, श्रुतस्कन्धः१ लुप्यत एव-कर्मणा क्लेशमनुभवत्येव अज्ञो बाल इति, यदिवा हुर्हेतौ यस्मात्सोपधिकः कर्मणा लुप्यते बालस्तस्मात्कर्म नवममध्ययनं उपधानश्रुतं, च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति // 56 // किं च- द्वे विधे प्रथमोद्देशकः प्रकारावस्येति द्विविधम्, किं तत्?- कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद्विविधमपि समेत्य ज्ञात्वा मेधावी सर्वभावज्ञः नियुक्ति: 284 सूत्रम् क्रियां संयमानुष्ठानरूपां कर्मोच्छेत्रीमनीदृशीं- अनन्यसदृशीमाख्यातवान् किंभूतो?- ज्ञानी, केवलज्ञानवानित्यर्थः, किं (अनुष्टुप) चापरमाख्यातवानिति दर्शयति- आदीयते कर्मानेनेति आदानं- दुष्प्रणिहितमिन्द्रियमादानं च तत् स्रोतश्चादानस्रोतस्तत् / ज्ञात्वा तथाऽतिपातस्रोतश्च उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा तथा योगं च मनोवाकायलक्षणं दुष्प्रणिहितं सहिष्णुता सर्वशः सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः / / 57 // किंच वीरध्यानम् ___अइवत्तियं अणाउदिसयमन्नेसिं अकरणयाए। जस्सित्थिओ परिन्नाया सबकम्मावहा उसे अदक्खु॥सू०गा०५८ // अहाकडं नसे सेवे सव्वसो कम्म अदक्खू। जं किंचि पावगं भगवंतं अकुव्वं वियडं भुजित्था॥सू०गा०५९॥णो सेवइय परवत्थं परपाएवी सेन भुजित्था। परिवज्जियाण उमाणं गच्छइसंखडिं असरणयाए॥सू०गा०६०॥मायण्णे असणपाणस्स नाणुगिद्धे रसेसु अपडिन्ने / अच्छिपि नो पमजिजा नोविय कंडूयए मुणी गायं। सू०गा०६१॥ आकुट्टि:- हिंसा नाकुट्टिरनाकुटिरहिंसेत्यर्थः, किंभूतां?- अतिक्रान्ता पातकादतिपातिका निर्दोषा तामाश्रित्य, स्वतोऽन्येषां 100 चाकरणतया- अव्यापारतया प्रवृत्त इति, तथा यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति, सर्वं कविहन्तीति सर्वंकावहा:- सर्वपापोपादानभूताः स एवाद्राक्षीत्- स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति, एतदुक्तं भवति