________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 492 // णं इति वाक्यालङ्कारे यस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवंगतस्य एव मिति वक्ष्यमाणोऽभिप्रायो भवति, श्रुतस्कन्धः१ से इति तच्छब्दार्थे तच्छब्दोऽपि वाक्योपन्यासार्थे, च: शब्दसमुच्चये खलुः अवधारणे, अहं चास्मिन् समये अवसरे संयमावसरे अष्टमाध्ययनं विमोक्षम्, ग्लायामि ग्लानिमेवगतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपोभिरभिनिष्टप्तं शरीरकमानुपूर्व्या- षष्ठोद्देशकः यथेष्टकालावश्यकक्रियारूपया परिवोढुं-नालमहं क्रियासुव्यापारयितुम्, अस्मिन्नवसरे इदं प्रतिक्षणंशीर्यमाणत्वाच्छरीरकमिति सूत्रम् 217-218 मत्वा स भिक्षुरानुपूर्व्या- चतुर्थषष्ठाचाम्लादिकया आहारं संवर्तयेत् संक्षिपेत् न पुनर्द्वादशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, | एकत्वभावना ग्लानस्य तावन्मात्रकालस्थितेरभावाद, अतस्तत्कालयोग्ययाऽऽनुपूर्व्या द्रव्यसंलेखनार्थमाहारं निरुन्ध्यादिति / द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह-षष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूर्व्याऽऽहारं संवर्त्य कषायान् प्रतनून् कृत्वा सर्वकालं हि कषायतानवं विधेयं विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून कृत्वा सम्यगाहिता- व्यवस्थापिता अर्चाशरीरं येन स समाहितार्च:, नियमितकायव्यापार इत्यर्थः, यदिवा अर्चालेश्या सम्यगाहिता-जनिता लेश्या येन ससमाहितार्च: अतिविशुद्धाध्यवसाय इत्यर्थः,यदिवाऽर्चा- क्रोधाद्यध्यवसायात्मिका ज्वाला समाहिता- उपशमिताऽर्चा येन स तथा, फलं कर्मक्षयरूपं तदेव फ लकं तेनापदि-संसारभ्रमणरूपायामर्थ:- प्रयोजनं फलकापदर्थः स विद्यते यस्यासौ फलकापदर्थी, यदिवा फलकवद्वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्ट इत्येवं विगृह्यार्षत्वात् फलगावयट्ठी इत्युक्तम्, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी, वासीचन्दनकल्प इत्यर्थः, स एवम्भूतः। प्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगावेगे उत्थाय-अभ्युद्यतमरणोद्यमं विधायाभिनिर्वृत्ता(ता) :- शरीरसन्ताप 0 अवसरे ग्लायामि (प्र०)।