SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ 280388888886 श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 491 // से भिक्खूवा भिक्खुणी वा असणं वा 4 आहारेमाणे नोवामाओ हणुयाओ दाहिणं हणुयं संचारिज्जा आसाएमाणे, दाहिणाओ श्रुतस्कन्ध:१ वा हणुयाओवामं हणुयं नो संचारिज्जा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं अष्टमाध्ययन विमोक्षम्, भगवया पवेइयं तमेवं अभिसमिच्चा सव्वओसव्वत्ताएसम्मत्तमेव समभिजाणिया।सूत्रम् 217 // षष्ठोद्देशकः स पूर्वव्यावर्णितो भिक्षुः साधुः साध्वी वा अशनादिकमाहारमुद्गमोत्पादनैषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धं च गृहीतं सूत्रम् 217-218 सदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयोरागद्वेषौ निमित्तम्, तयोरपिसरसनीरसोपलब्धिः, कारणाभावे एकत्वभावना च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारं दर्शयति- स भिक्षुराहारमाहारयन्नो वामतो हनुतो दक्षिणां हनुं रसोपलब्धये सञ्चारयेदास्वादयनशनादिकम्, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन्, तत्सञ्चारास्वादनेन हि रसोपलब्धौ रागद्वेषनिमित्ते अङ्गारितत्वाभिधूमितत्वे स्यातामतो यत्किञ्चिदप्यास्वादनीयं नास्वादयेत्, पाठान्तरं वा आढायमाणे आदरवानाहारे मूर्च्छितो। गृद्धो न सञ्चारयेदिति, हन्वन्तरसङ्कमवदन्यत्रापि नास्वादयेदिति दर्शयति- स ह्याहारं चतुर्विधमप्याहारयन् रागद्वेषौ / परिहरन्नास्वादयेदिति, तथा कुतश्चिन्निमित्ताद्धन्वन्तरं सञ्चारयन्नप्यनास्वादयन् सञ्चारयेदिति / किमिति यत आह- आहारलाघवमागमयन्- आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्युपगमोऽभिहितो भवति, एवं च तप: से तस्य भिक्षोरभिसमन्वागतं भवतीत्यादि गतार्थं यावत् सम्मत्तमेव समभिजाणिय त्ति // 217 // तस्य चान्तप्रान्ताशितयाऽपचितमांसशोणितस्य जरदस्थिसन्ततेः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह जस्सणं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इमंमि समए इमं सरीरगं अणुपुव्वेण परिवहित्तए, स अणुपुव्वेणं आहारं संवट्टिजा, अणुपुव्वेणं आहारं संवट्टित्ता कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे॥ सूत्रम् 218 // // 42
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy