SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् दर्शयितुमाह- एवं उक्तविधिना स भिक्षुरवगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्तितमेव धर्म- उक्तस्वरूपं सम्यगभिजानन् - आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयन्नित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा शान्त: कषायोपशमाच्छ्रान्तो वा अनादिसंसारपर्यटनाद् विरत: सावधानुष्ठानात् शोभनाः समाहृता- गृहीता लेश्या:- अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वा येन स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगात न वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, तत्रापि भक्तपरिज्ञायामपितस्य कालपर्यायेणानागतायामपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य य: कालपर्यायो- मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात्, स भिक्षुस्तत्र- ग्लानतयाऽनशनविधाने व्यन्तिकारक:- कर्मक्षयविधायीति // 214 // उद्देशकार्थमुपसञ्जिहीर्षुराह- सर्वं पूर्ववद् / विमोक्षाध्ययनस्य पञ्चमोद्देशकः परिसमाप्तः॥ श्रुतस्कन्धः। अष्टमाध्ययन विमोक्षम्, षष्ठोद्देशकः सूत्रम् 215 | एकत्वभावना श्रुतस्कन्धः१ // 489 / / ॥अष्टमाध्ययने षष्ठोद्देशकः॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इह तु धृतिसंहननादिबलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं जे भिक्खू एगेण वत्थेण परिवुसिए पायबिईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अहेसणिज्नं वत्थं जाइज्जा अहापरिग्गहियं वत्थं धारिता जाव गिम्हे पडिवन्ने अहापरिजुन्नं वत्थं परिट्ठविज्जा 2 त्ता अदुवा एगसाडे अदुवा अचेले लाघवियं // 489 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy