SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 488 // श्रुतस्कन्धः१ अष्टमाध्ययनं विमोक्षम्, पञ्चमोद्देशक: सूत्रम् 214 भक्तपरिज्ञास्वरूप: परैः?-अग्लानैः-उचितकर्त्तव्यसहिष्णुभिः, तत्र परिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति-निर्जरां अभिकाश्य उद्दिश्य साधर्मिकैः सदृशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं स्वादयिष्यामि अभिकाङ्क्षयिष्यामि यस्यायं भिक्षोः प्रकल्प:-आचारः स्यात् स तमाचारमनुपालयन् भक्त परिज्ञयाऽपि जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यादिति भावार्थः। तदेवमन्येन साधर्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातम्, साम्प्रतं स एवापरस्य कुर्यादिति दर्शयितुमाहच: समुच्चये अपिशब्दः पुनःशब्दार्थे, सच पूर्वस्माद्विशेषदर्शनार्थः, खलु वाक्यालङ्कारे, अहं च पुनरप्रतिज्ञप्त:- अनभिहितः प्रतिज्ञप्तस्य-वैयावृत्त्यकरणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाङ्क्षय साधर्मिकस्य वैयावृत्त्यं कुर्याम्, किमर्थं?- करणाय तदुपकरणाय तदुपकारायेत्यर्थः, तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः इदानीं प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह- एकः कश्चिदेवम्भूतां प्रतिज्ञां गृह्णाति, तद्यथा- ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं च वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य- गृहीत्वा वैयावृत्त्यं कुर्यादिति 1, तथाऽपर आहृत्य प्रतिज्ञां गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न स्वादयिष्यामीति 2, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूताम्, तद्यथानापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति 3, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूताम्, तद्यथानान्वीक्षिष्येऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति 4, एवम्भूतां च नानाप्रकारां प्रतिज्ञां गृहीत्वा, कुतश्चिद् ग्लायमानोऽपिजीवितपरित्यागं कुर्यात्, न पुनः प्रतिज्ञालोपमिति / नाप्याहृतमन्येन स्वादयिष्यामीति। अमुमेवार्थमुपसंहारद्वारेण // 488 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy