________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 486 // श्रुतस्कन्धः१ अष्टमाध्ययन विमोक्षम्, पञ्चमोद्देशक: सूत्रम् 213 भक्तपरिज्ञास्वरूपः असणं वा 4 आहट्ट दलइजा, से पुव्वामेव आलोइजा-आउसंतो! नोखलु मे कप्पइ अभिहडं असणं 4 भुत्तए वा पायए वा अन्ने वा एयप्पगारे। सूत्रम् 213 // तत्र विकल्पपर्युषित:स्थविरकल्पिको जिनकल्पिकोवा स्यात्, कल्पद्वयपर्युषितस्तु नियमाज्जिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमः, अस्मिन् सूत्रेऽपदिष्टो यो भिक्षुर्जिनकल्पिकादिर्कीभ्यां वस्त्राभ्यां पर्युषितो वस्त्रशब्दस्य सामान्यवाचित्वादेकः क्षौमिकाऽपर और्णिक इत्याभ्यां कल्पाभ्यां पर्युषित:- संयमे व्यवस्थितः, किम्भूताभ्यां कल्पाभ्यां?पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोद्देशकवन्नेयं यावत् नालमहमंसि त्ति स्पृष्टोऽहं वातादिभी रोगैः अबल: असमर्थः नालं न समर्थोऽस्मि गृहागृहान्तरं सङ्कमितुम्, तथा भिक्षार्थं चरणं चर्या भिक्षाचर्या तद्गमनाय नालंन समर्थ इति, तमेवम्भूतं भिक्षुमुपलभ्य स्याद्गृहस्थ एवम्भूतामात्मीयामवस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसाहृदयोऽभिहृतं- जीवोपमर्दनिर्वृत्तम्, किं तद्? - अशनं पानं खादिमं स्वादिमं वेत्याद्याहृत्य तस्मै साधवे दलएज्ज त्ति दद्यादिति / तेन च ग्लानेनापि साधुना सूत्रार्थमनुसरता जीवितनिष्पिपासुनाऽवश्यं मर्त्तव्यमित्यध्यवसायिना किं विधेयमित्याहस जिनकल्पिकादीनां चतुर्णामप्यन्यतमः पूर्वमेव- आदावेव आलोचयेत् विचारयेत्, कतरेणोद्गमादिना दोषेण दुष्टमेतत्?, तत्राभिहतमिति ज्ञात्वाभ्याहृतं च प्रतिषेधयेत्, तद्यथा- आयुष्मन् गृहपते! न खल्वेतन्ममाभिहृतमभ्याहृतं वा कल्पते अशनं भोक्तुं पानं पातुमन्यद्वैतत्प्रकारमाधाकर्मादिदोषदुष्टं न कल्पते, इत्येवं तं गृहपतिं दानायोद्यतमाज्ञापयेदिति, पाठान्तरं वा तं भिक्खं केइ गाहावई उवसंकमित्तु बूयाआउसंतो समणा! अहन्नं तव अट्ठाए असणं वा 4 अभिहडं दलामि, से पुवामेव जाणेज्जाआउसंतो गाहावई! जन्नं तुम मम अट्ठाए असणं तत्राभ्याहृत० (मु०)।