________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 482 // अदुवा एगसाडे अदुवा अचेले॥सूत्रम् 209 // श्रुतस्कन्धः१ यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकालं प्रत्युपेक्षयन् बिभर्ति, यदि पुनर्जीर्णदेश्यानि जीर्णानीति अष्टममध्ययनं विमोक्षम्, जानीयात् ततः परित्यजतीत्यनेन सूत्रेण दर्शयति, अथ पुनरेवं जानीयाद्यथाऽपक्रान्तः खल्वयं हेमन्तो ग्रीष्मः प्रतिपन्न: अपगता चतुर्थोद्देशक: शीतपीडा यथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य तत: परिष्ठापयेत्- परित्यजेदिति, यदि पुनः सर्वाण्यपि न जीर्णानि ततो सूत्रम् यद्यज्जीर्णं तत्तत्परिष्ठापयेत्, परिष्ठाप्य च निस्सङ्गोः विहरेत्, यदि पुनरतिक्रान्तेऽपि शिशिरे क्षेत्रकालपुरुषगुणाद्भवेच्छीतं 209-210 स्त्र्याधुपसर्गेतत: किं कर्त्तव्यमित्याह-अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणाद्धिमकणिनिवाते वाति सत्यात्मपरितुलनार्थं - विधि: शीतपरीक्षार्थं च सान्तरोत्तरो भवेत्- सान्तरमुत्तरं- प्रावरणीयं यस्य स तथा, क्वचित्प्रावृणोति क्वचित्पार्श्ववर्त्ति बिभर्ति, शीताशया नाद्यापि परित्यजति, अथवाऽवमचेल एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः, अथवा शनैःशनैःशीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत् तत एकशाटकः संवृतः, अथवाऽऽत्यन्तिके शीताभावे तदपि परित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकारजोहरणमात्रोपधिः॥२०९॥ किमर्थमसावेकैकं वस्त्रं परित्यजेदित्याह लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ ।सूत्रम् 210 / / लघो वो लाघवम्, लाघवं विद्यते यस्यासौ लाघविकः, तं लाघविकमात्मानमागमयन्-आपादयन् वस्त्रपरित्याग कुर्यात्, शरीरोपकरणकर्मणि वा लाघवमागमयन् वस्त्रपरित्यागं कुर्यादिति / तस्य चैवम्भूतस्य किं स्यादित्याह-'से' तस्य वस्त्रपरित्यागं कुर्वत:साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात्, उक्तंच पंचहिं ठाणेहिंसमणाणं निग्गंथाणं / पञ्चभि: कारणैः श्रमणानां निर्ग्रन्थानामचेलकत्वं प्रशस्तं भवति, तद्यथा-अल्पा प्रतिलेखना 1 वैश्वसिकं रूपं 2 तपोऽनुमतं 3 लाघवं प्रशस्तं 4 विपुल इन्द्रियनिग्रहः५। // 482 //