SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ 207 // विमोक्षाध्ययनस्य तृतीयोद्देशकः परिसमाप्तः। श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, चतुर्थोद्देशकः सूत्रम् 208 स्त्र्याधुपसर्गेविधिः // 480 // ॥अष्टमाध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशकेगोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोपसर्गयेयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयम्, कारणाभावे तु तन्न कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं जे भिक्खू तिहिं वत्थेहिं परिवुसिए पायचउत्थेहिं तस्स णं नो एवं भवइ-चउत्थं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिजा, नो धोइज्जा नो धोयरत्ताइंवत्थाई धारिजा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एयं खुवत्थधारिस्स सामग्गियं / / सूत्रम् 208 // इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा च्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पवयं चायमेवौघोपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिकं कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्भं तृतीयस्त्वौर्णिकः, सच सत्यपिशीतेनापरमाकाङ्क्षतीत्येतद्दर्शयति यो भिक्षुः त्रिभिर्वस्त्रैः पर्युषितो व्यवस्थितः, तत्र शीते पतत्येकं क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिकम् , पुनरपि अतिशीततया क्षौमिककल्पद्वयोपौर्णिकमिति, सर्वथौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैस्त्रिभिर्वस्वैरिति दर्शयति- पात्रचतुर्थे : पतन्तमाहारं पातीति पात्रम्, तद्हणेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः, // 480 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy