________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 479 // सूत्रम् शीतस्पर्शपरिवेपमानगात्रं उपसङ्कम्य- आसन्नतामेत्य गृहपतिः- ऐश्वर्योष्मानुगतो मृगनाभ्यनुविद्धकश्मीरजबहलरसानुलिप्तदेहो श्रुतस्कन्धः१ मीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुः प्रौढसीमन्तिनीसन्दोहपरिवृतो वार्तीभूतशीतस्पर्शानुभव: सन् किमयं मुनिरुप अष्टममध्ययनं विमोक्षम्, हसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो ब्रूयात्-भो आयुष्मन्! तृतीयोद्देशक: श्रमण! कुलीनतामात्मन आविर्भावयन् प्रतिषेधद्वारेण प्रश्नयति- नो भवन्तं ग्रामधा:- विषया उत्- प्राबल्येन बाधन्ते?, 206-207 एवंगृहपतिनोक्ते विदिताभिप्रायः साधुराह- अस्य हि गृहपतेरात्मसंवित्त्याऽङ्गनावलोकनाऽऽविष्कृतभावस्यासत्याशङ्काऽभूद् परिसहसहनम् अतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्बभाषे- आयुष्मन्! गृहपते! नो खलु नैव ग्रामधा मामुद्बाधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितम्, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुम्, एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्- सुप्रज्वलितमाशुशुक्षणिं किमिति न सेवसे?, महामुनिराह-भो गृहपते ! न खलु मेल कल्पतेऽग्निकायं मनाग ज्वालयितुं (उज्ज्वालयितुं) प्रकर्षेण ज्वालयितुं प्रज्वालयितुं स्वतो ज्वालितादौ कायं शरीरमीषत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुं वा, अन्येषां वा वचनात् ममैतत्कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुं न कल्पते ममेति / तं चैवं वदन्तं साधुमवगम्य गृहपति: कदाचिदेतत्कुर्यादित्याह- स्यात्- कदाचित्स- परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकायमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तच्चोज्ज्वालनातापनादिकं भिक्षुः प्रत्युपेक्ष्य विचार्यस्वसन्मत्या परव्याकरणेनान्येषांवाऽन्तिके श्रुत्वा-अवगम्य ज्ञात्वातंगृहपतिमाज्ञापयेत्-प्रतिबोधयेत्, कया?-अनासेवनया, यथैतत् मया युक्तमासेवितुम्, भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमीतिशब्दावुक्तार्थौ // 0 लोकनाधिष्ठितभावस्या० (प्र०)। // 479 //