________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, द्वितीयोद्देशक: सूत्रम् 203 परिसहसहनम् तृतीयोद्देशकः // 475 // धम्ममायाणह पवेइयं माहणेण मइमया समणुन्ने समणुन्नस्स असणं वा जाव कुज्जा वेयावडियं परं आढायमाणे। सूत्रम् 203 // तिबेमि॥८-२॥ धर्मं दानधर्मं जानीत यूयं प्रवेदितं कथितम्, केन?- श्रीवर्द्धमानस्वामिना, किम्भूतेन?- मतिमता केवलिना, किम्भूतं धर्ममिति दर्शयति- यथा समनोज्ञः- साधुरुधुक्तविहारी अपरस्मै- समनोज्ञाय चारित्रवते संविनाय साम्भोगिकायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विधं तथा वस्त्रादिकमपि चतुर्द्धा प्रदद्यात् प्रयच्छेत्, तथा तदर्थं च निमन्त्रयेत्, पेशलमन्यद्वा वैयावृत्त्यं- अङ्गमर्दनादिकं कुर्यात्, नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यः कुतीर्थिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, किन्तु समनोज्ञेभ्य एव परं- अत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानः सम्यग्वैयावृत्त्यं कुर्यात्, तदेवं गृहस्थादयः कुशीलास्त्याज्या इति दर्शितम्, अयं तु विशेषो- गृहस्थेभ्यो यावल्लभ्यते तावद्गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति // 203 // इतिब्रवीमिशब्दौ पूर्ववद् / विमोक्षाध्ययने द्वितीयोद्देशकः // 8-2 // ॥अष्टमाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशकेऽकल्पनीयाहारादिप्रतिषेधोऽभिहितस्तत्प्रतिषेधकुपितस्य दातुर्यथावस्थितपिण्डदानप्ररूपणाच, तदिहाप्याहारादिनिमित्तं प्रविष्टेन शीताद्यङ्गोत्कम्पदर्शनान्यथाभाववतोगृहपतेर्यथावस्थितपदार्थावेदनतोगीतार्थेन साधुनाऽसदारेकाऽपनेयेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रा 0 कुशीलादयस्त्याज्या (मु०)। // 475 //