________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला विमोक्षम्, वृत्तियुतम् श्रुतस्कन्धः१ // 473 // त्यागः वणिजः सद्यानपात्रेण // 3 // इत्यादि, // 200 // इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्येतत्पूर्वोक्तं वक्ष्यमाणं चेत्याह श्रुतस्कन्धः१ अष्टममध्ययन भिक्खं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह खणह छिंदह दहह पयह आलुंपह विलुपह सहसाकारह विप्परामुसह, ते फासे धीरो पुट्ठो अहियासए अदुवा आयारगोयरमाइक्खे, तक्किया णमणेलिसं अदुवा वइगुत्तीए गोयरस्स द्वितीयोद्देशकः अणुपुव्वेण संमं पडिलेहए आयतगुत्ते बुद्धेहिं एवं पवेइयं / / सूत्रम् 201 // सूत्रम् 201 अकल्पितचः समुच्चये, खलुः वाक्यालङ्कारे, भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्ट्रा कश्चिद्यथा भो भिक्षो! भवदर्थमशनादिकमावसथं वा संस्कारिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीषत्साध्वाचारविधिज्ञोऽ-01 तोऽपृष्दैव छद्मना ग्राहयिष्यामीत्यभिसन्धायाशनादिकं विदध्यात्, सच तदपरिभोगे श्रद्धाभङ्गाच्चाटुशताग्रहणाच्च रोषावेशान्निः सुखदुःखतयाऽलोकज्ञा इत्यनुशयाद्राजानुसृष्टतया च न्यक्कारभावनात: प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-8 एकाधिकारे बह्वतिदेशाद्य इमे प्रश्नपूर्वकमप्रश्नपूर्वकं वा आहारादिकं ग्रन्थात् महतो द्रव्यव्ययाद् आहृत्य ढौकित्वा आहृतग्रन्था वा-व्ययीकृतद्रव्या वा तदपरिभोगे स्पृशन्ति उपतापयन्ति, कथमिति चेद्दर्शयति-स ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा- हतैनं साधु दण्डादिभिः क्षणुत व्यापादयत छिन्त हस्तपादादिकं दहत अग्न्यादिना पचत ऊरुमांसादिकं आलुम्पत वस्त्रादिकं विलुम्पत सर्वस्वापहारेण सहसा कारयत- आशु पञ्चत्वं नयत तथा विविधं परामृशत नानापीडाकरणैर्बाधयत, तांश्चैवम्भूतान् स्पर्शान् दुःखविशेषान् धीर: अक्षोभ्यस्तैः स्पर्शः स्पृष्टः सन्नधिसहेत, तथा परैः // 473 // क्षुत्पिपासापरीषहै: स्पृष्टः सन्नधिसहेत, न तु पुनरुपसर्गः परीषहैर्वा तर्जितो विक्लवतामापन्नस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वा सान्त्ववादादिभिरुपसर्गितो नादद्याद्, अपितु सति सामर्थ्य जिनकल्पिकादन्य आचारगोचरमाचक्षीतेत्याह