________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 471 // त्यागः अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि, तथा जीवितवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान्, सक्ताः श्रुतस्कन्धः१ अष्टममध्ययन सुखदुःखेष्विति सत्त्वास्तान् समारभ्य- उपमर्य, तथाहि- अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा विमोक्षम्, कश्चित्प्रतिपद्येत, इयं चाविशुद्धिकोटिर्गृहीता, साचेमा आहाकम्मुद्देसिअमीसज्जा बायरा य पाहुडिआ। पूइअ अज्झोयरगो उग्गमकोडी द्वितीयोद्देशक: अछब्भेओ॥१॥विशुद्धिकोटिं दर्शयति-क्रीतं मूल्येन गृहीतं पामिच्चं ति अपरस्मादुच्छिन्नमुद्यतकं गृहीतम्, बलात्कारितया सूत्रम् 199 अकल्पितवाऽन्यस्मादाच्छिद्य राज्ञोपदिष्टो वाऽन्येभ्यो गृहिभ्य: साधोर्दास्यामीत्याच्छिन्द्यात्, तथा अनिसृष्टं परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं- दत्तं तदनिसृष्टम्, तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहा- दाहृत्य चेएमि ति ददामि। तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य ब्रूयात्, तथा आवसथं वा युष्मदाश्रयं समुच्छृणोमि- आदेरारभ्यापूर्वं करोमि संस्कार वा करोमीत्येवं प्राञ्जलिरवनतोत्तमाङ्गः सन् अशनादिना निमन्त्रयेत्, यथा- भुङ्खाशनादिकं मत्संस्कृतावसथे वसेत्यादि, द्विवचनबहुवचने अप्यायोज्ये। साधुना तु सूत्रार्थविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह- आयुष्मन्! श्रमण! भिक्षो! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमिति चेद्दर्शयति- यथा आयुष्मन्! भो गृहपते! न खलु तवैवंभूतं. वचनमहमाद्रिये, खलुशब्दोऽपिशब्दार्थे, स च समुच्चये, नापि तवैतद्वचनं परिजानामि आसेवनपरिज्ञां न विदधेऽहमित्यर्थः, यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि यावदावसथसमुच्छ्रयं विदधासि, भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात्, कथं? - एतस्य- भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जानेऽहमिति // 199 // तदेवं प्रसह्याशनादिसंस्कार ®आधाकौद्देशिके मिश्रजातं बादरा च प्राभृतिका / पूतिश्च अध्यवपूरक उद्गमकोटी च षड्झेदा // 1 // 6 दिनामन्त्रयेत् (प्र०)। 0 परिज्ञानेन परिविदधे (मु०)। // 471 //