________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 470 // विमोक्षम्, अकल्पितत्यागः भिक्खूतं गाहावई समणसं सवयसं पडियाइक्खे-आउसंतो! गाहावई नो खलु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, श्रुतस्कन्धः१ अष्टममध्ययनं जो तुमं मम अट्ठाए असणं वा 4 वत्थं वा 4 पाणाई वा 4 समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसटुं अभिहडं आह? चेएसि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई! एयस्स अकरणयाए।सूत्रम् 199 // द्वितीयोद्देशकः सकृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा पराक्रमेत विहरेत् / सूत्रम् 199 तिष्ठेद्वा ध्यानव्यग्रो निषीदेद्वा अध्ययनाध्यापनश्रवणश्रावणादृतः, तथा श्रान्त: क्वचिदध्वानादौ त्वग्वर्त्तनं वा विदध्यात्, वैतानि विदध्यादिति दर्शयति- श्मशाने वा शबानां शयनं श्मशानं-पितृवनं तस्मिन् वा, तत्र च त्वग्वर्त्तनं न सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यम्, तथाहि- गच्छवासिनस्तत्र स्थानादिकं न कल्पते, प्रमादस्खलितादौ व्यन्तराद्युपद्रवात्, तथा जिनकल्पार्थ सत्त्वभावनां भावयतोऽपिन पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रतिपन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानम्, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम्, एवमन्यदपि यथासम्भवमायोज्यम्, शून्यागारे वा गिरिगुहायां वा हुरत्था व त्ति अन्यत्र वा ग्रामादेर्बहिस्तं भिक्षु क्वचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा ब्रूयाद् वदेदिति, यच्च / ब्रूयात्तद्दर्शयितुमाह- साधुं श्मशानादिषु पराक्रमणादिकां क्रियां कुर्वाणमुपसङ्कम्य- उपेत्य पूर्वस्थितो वा गृहस्थ: प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यैतद्रूयात्- यथैते लब्धापलब्धभोजिनस्त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुपतिष्ठते, वक्ति च-आयुष्मन्! भोः श्रमण! अहं // 470 // संसारार्णवं समुत्तितीर्घः खलुः वाक्यालङ्कारे तवाय युष्मन्निमित्तं अशनं वा पानं वा खादिमं वा स्वादिमं वा तथा वस्त्रं वा पतगृहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्य आश्रित्य किं कुर्यादिति दर्शयति-पञ्चेन्द्रियोच्छ्रासनिश्वासादिसमन्विताः प्राणिनस्तान्,