________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 469 // ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत्, कोऽसौ?- मेधावी मर्यादाव्यवस्थित इति, कथं प्रत्याचक्षीतेत्याह- नैव श्रुतस्कन्धः१ अष्टममध्ययनं स्वयमात्मना एतेषु चतुर्दशभूतग्रामावस्थितेषु कायेषु पृथिवीकायादिषु दण्डंउपमर्द समारभेत, न चापरेण समारम्भयेत्, नैवान्यान्ह विमोक्षम्, समारभमाणान्समनुजानीयात्, ये चान्ये दण्डं समारभन्ते, सुब्व्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयंलज्जामहे इत्येवं कृताध्यवसायः द्वितीयोद्देशकः सन् तज्जीवेषु कर्मसमारम्भं महतेऽनर्थाय परिज्ञाय ज्ञात्वा मेधावी मर्यादावान्, तद्वा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं सूत्रम् 199 अकल्पितदण्डाद्विभेतीति दण्डभी: सन्नो दण्डं प्राण्युपमर्दादिकं समारभेथाः, करणत्रिकयोगत्रिकेण परिहरेदिति॥१९८ // इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् / विमोक्षाध्ययने प्रथमोद्देशक इति // त्यागः ॥अष्टमाध्ययने द्वितीयोद्देशकः॥ उक्त:प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशकेऽनघसंयमप्रतिपालनाय कुशीलपरित्यागोऽभिहितः, सचैतावताऽकल्पनीयपरित्यागमृतेन सम्पूर्णतामियाद् अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यत इत्यनेन / सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं से भिक्खू परिक्कमेज वा चिट्ठिज्ज वा निसीइज्ज वा तुयट्टिज वा सुसाणंसि वा सुन्नागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई बूया- आउसंतो समणा! अहं खलु तव अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा पाणाई भूयाई जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छिनं अणिसटुं अभिहडं आहट्ट चेएमि आवसहं वा समुस्सिणोमि से भुंजह वसह, आउसंतोसमणा। // 469 //