________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 468 // समनोज्ञास्ते इति / किंच-सदसद्विवेकिनो हि धर्मः,सच ग्रामे वा स्यात् अथवाऽरण्ये, नैवाधारो ग्रामो नैवारण्यं धर्मनिमित्तम्, श्रुतस्कन्धः 1 यतो भगवतान वसिममितरद्वाऽऽश्रित्य धर्म: प्रवेदितः, अपितु जीवादितत्त्वपरिज्ञानात् सम्यगनुष्ठानाच्च, अतस्तं धर्ममाजानीत अष्टममध्ययन विमोक्षम्, प्रवेदितं कथितं माहणेण त्ति भगवता, किम्भूतेन?- मतिमता मननं- सर्वपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिनेत्यर्थः। प्रथमोद्देशक: किंभूतो धर्मः प्रवेदित इत्याह- यामा व्रतविशेषास्त्रय उदाहृताः, तद्यथा-प्राणातिपातो मृषावादः परिग्रहश्चेति, अदत्ता- सूत्रम् 198 दानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणम्, यदिवा यामा-वयोविशेषाः, तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत उर्द्धमाषष्टेः पार्श्वस्थत्यागः द्वितीयस्तत ऊर्द्ध तृतीय इति अतिबालवृद्धयोगुंदासो, यदिवा यम्यते- उपरम्यते संसारभ्रमणादेभिरिति यामा:- ज्ञानदर्शनचारित्राणीति ते उदाहृता व्याख्याताः, यदि नामैवं ततः किमित्याह- येषु अवस्थाविशेषेषु ज्ञानादिषु वा इमे देशार्या अपाकृतहेयधर्मा वा सम्बुध्यमानाः सन्तः समुत्थिताः, के?- ये निर्वृताः क्रोधाद्यपगमेन शीतीभूताः पापेषु कर्मसु अनिदाना निदानरहितास्ते व्याख्याता: प्रतिपादिता इति // 197 // क्व च पुनः पापकर्मस्वनिदाना इत्यत आह___ उड़ अहं तिरियं दिसासु सव्वओ सव्वावंति च णं पाडियक्वं जीवहिं कम्मसमारम्भेणं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिज्जा नेवन्ने एएहिं काएहिं दंडंसमारंभाविज्जा नेवन्ने एएहिं काएहिं दंडं समारंभतेऽवि समणुजाणेजा जेवऽन्ने एएहिं काएहिं दंडं समारंभंति तेसिपि वयं लज्जामोतं परिन्नाय मेहावीतं वा दंडं अन्नं वा नो दंडभी दंडं समारंभिज्जासि // सूत्रम् 198 // त्तिबेमि॥ विमोक्षाध्ययनोद्देशक :8-1 // // 468 // ऊर्द्धमधस्तिर्यग्दिक्षु सर्वतः सर्वैः प्रकारैः सर्वा याः काश्चन दिश: चशब्दादनुदिशश्च णं इति वाक्यालङ्कारे प्रत्येकं जीवेषु / एकेन्द्रियसूक्ष्मेतरादिकेषु यः कर्मसमारम्भ:-जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भःणं इति वाक्यालङ्कारे तं कर्मसमारम्भं