SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 467 // से जहेयं भगवया पवेइयं आसुपन्नेण जाणया पासया अदुवा गुत्ती वओगोयरस्स त्तिबेमि सव्वत्थ संमयं पावं, तमेव उवाइक्कम श्रुतस्कन्धः१ अष्टममध्ययन एस महं विवेगे वियाहिए, गामे वा अदुवा रण्णे नेव गामे नेव रणे धम्ममायाणह पवेइयं माहणेण मइमया, जामा तिन्नि उदाहिया विमोक्षम्, जेसुइमे आयरिया संबुज्झमाणा समुट्ठिया, जे णिवुया पावेहिं कम्मेहिं अणियाणा ते वियाहिया // सूत्रम् 197 // प्रथमोद्देशकः तद्यथा इदं स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि क्वचिदप्यप्रतिहतं भगवता श्रीवर्द्धमानस्वामिना प्रवेदितम्, सूत्रम् 197 पार्श्वस्थत्यागः एतद्वाऽनन्तरोक्तंभगवता प्रवेदितमिति, किम्भूतेनेति दर्शयति- आशुप्रज्ञेन, निरावरणत्वात्सततोपयुक्तेनेत्यर्थः, किं योगपद्येन?, नेति दर्शयति- जानता ज्ञानोपयुक्तेन, तथा पश्यता दर्शनोपयुक्तेनैतत्प्रवेदितम्, यथा नैषामेकान्तवादिनां धर्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य- भाषासमिति: कार्येत्येतत्प्रवेदितं भगवता, यदिवा अस्तिनास्तिधुवाध्रुवादिवादिनांक वादायोत्थितानां त्रयाणां त्रिषष्ट्यधिकानांप्रावादुकशतानांवादलब्धिमतांप्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन च तत्पराजयापादनत: सम्यगुत्तरं देयम्, अथवा गुप्तिर्वाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि, वक्ष्यमाणं चेत्याह- तान् वादिनो वादायोत्थितानेवं ब्रूयाद्- यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽत: सर्वत्र सम्मतं अभिप्रेतमप्रतिषिद्धं पापं पापानुष्ठानम्, मम तु नैतत्सम्मतमित्येतद्दर्शयितुमाह- तदेव एतत्पापानुष्ठानमुपसामीप्येनातिक्रम्य- अतिलय यतोऽहं व्यवस्थितोऽत एष मम विवेको व्याख्यातः, तत्कथमहं सर्वाप्रतिषिद्धास्रवद्वारैः संभाषणमपि करिष्ये?, आस्तां तावद्वाद इत्येवमसमनुज्ञविवेकं करोतीति, अत्राह चोदक:- कथं तीर्थकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतपस्विनो वेति?, तथाहि- तेऽप्यकृष्टभूमिवनवासिनो मूलकन्दाहारा वृक्षादिनिवासिनश्चेति, अत्राहाचार्य:- नारण्यवासादिना धर्मः, अपितु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽ // 46 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy