________________ श्रुतस्कन्धः१ अष्टममध्ययन विमोक्षम्, श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 463 // प्रथमोद्देशक: सूत्रम् 196 पार्श्वस्थत्यागः वदन्तोऽनुवदन्तः, तथा जहि प्राणिन इत्येवमपरैर्घातयन्तो घ्नतश्चापि समनुजानन्तः, अथवा अदत्तं परकीयं द्रव्यमगणितविपाकास्तिरोहितशुभाध्यवसाया: आददति गृह्णन्तीति, किं च- तत्र प्रथमतृतीयव्रते अल्पवक्तव्यत्वात् पूर्वं प्रतिपाद्य ततो बहुतरवक्तव्यत्वात् द्वितीय व्रतोपन्यास इति, अथवेति पूर्वस्मात् पक्षान्तरोपक्षेपकः, तद्यथा अदत्तं गृह्णन्त्यथवा वाचो विविधंनानाप्रकारा युञ्जन्ति, तद्यथे त्युपक्षेपार्थः, अस्ति लोक: स्थावरजङ्गमात्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेति वा, अपरेषां तु ब्रह्माण्डान्तर्वर्ती, अपरेषां तु प्रभूतान्येवम्भूतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि संतिष्ठन्ते, तथा सन्ति / जीवाः स्वकृतफलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षौ, सन्ति पञ्च महाभूतानि इत्यादि, तथाऽपरे चार्वाका आहुःनास्ति लोको मायेन्द्रजालस्वप्नप्रकल्पमेवैतत्सर्वम्, तथा ह्यविचारितरमणीयतया भूताभ्युपगमोऽपितेषांमते, नास्ति परलोकानुयायी जीवो, न स्तः शुभाशुभे, किण्वादिभ्यो मदशक्तिवद्भूतेभ्य एव चैतन्यमित्यादिना सर्वं मायाकारगन्धर्वनगरतुल्यम्, उपपत्त्यक्षमत्वादिति, उक्तं च- यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा। यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयं? // 1 // तथा- भौतिकानि शरीराणि, विषयाः करणानि च। तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते॥२॥ इत्यादि, तथा सानयादय आहुःध्रुवो नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुत्पादविनाशयोः, असतोऽनुत्पादात् सतश्चाविनाशात्, यदिवा ध्रुव: निश्चलः, सरित्समुद्रभूभूधराणां निश्चलत्वात्, शाक्यादयस्त्वाहुः- अध्रुवो लोकोऽनित्यः, प्रतिक्षणं विशरारुस्वभावत्वात्, विनाशहेतोरभावात् नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियायामसामर्थ्यात्, यदिवा अध्रुवः चलः, तथाहि- भूगोल: केषाञ्चिन्मतेन नित्यंचलन्नेवास्ते, आदित्यस्तु व्यवस्थित एव, तत्रादित्यमण्डलं दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदय आदित्यमण्डलाधो व्यवस्थितानां मध्याह्नः ये तु दूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति, अन्ये पुनः सादिको लोक इति प्रतिपन्नाः, तथा // 46