________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 462 // श्रुतस्कन्धः१ अष्टममध्ययनं विमोक्षम्, प्रथमोद्देशकः सूत्रम् 196 पार्श्वस्थत्यागः प्यागन्तव्यमपक्रम्य वाऽन्यगृहाणि समागन्तव्यम्, नात्रागमने खेदो विधेयः, किम्भूतोऽसौ शाक्यादिरिति दर्शयति-विभक्तं पृथग्भूतं धर्मं जुषन् आचरन्, एतच्च कदाचित्प्रतिश्रयमध्येन समेमाणे त्ति समागच्छन् तथा चलेमाणे त्तिगच्छन् ब्रूयाद्यदिवाऽशनादि प्रदद्यात् अशनादिदानेन वा निमन्त्रयेदन्यद्वा प्रश्रयवद्वैयावृत्त्यं कुर्यात्, तस्य कुशीलस्य नाभ्युपेयात् न तेन सह संस्तवमपि कुर्यात्, कथं परं- अत्यर्थमनाद्रियमाणः- अनादरवान्, एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमीत्येतत्पूर्वोक्तम् // 195 // यदि वैतद्वक्ष्यमाणमित्याह___ इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणओ यावि समणुजाणमाणा अदुवा अदिनमाययंति अदुवा वायाउ विउजंति, तंजहा- अस्थि लोए नत्थि लोए धुवे लोए अधुवे लोए साइए लोए अणाइए लोए सपज्जवसिए लोए अपज्जवसिए लोए सुकडेत्ति वा दुक्कडेत्ति वा कल्लाणेत्ति वा पावेत्ति वा साहुत्ति वा असाहुत्ति वा सिद्धित्ति वा असिद्धित्ति वा निरएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्मं पन्नवेमाणा इत्थ वि जाणह अकस्मात् एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ॥ सूत्रम् 196 // इह अस्मिन्मनुष्यलोके एकेषां पुरस्कृताशुभकर्मविपाकानामाचरणमाचारो-मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो विषयः नो सुष्ठ निशान्त:- परिचितो भवति, ते चापरिणताचारगोचरा यथाभूताः स्युस्तथा दर्शयितुमाह- ते अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीषहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणामिता: इह मनुष्यलोके आरम्भार्थिनो भवन्ति, ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः, तथा विहारारामतडागकूपकरणौद्देशिकभोजनादिभिर्धर्म // 462 //