SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 460 // 273-274 न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवत: पूर्वोक्तमेव पारणकम्, द्वादशं तु संवत्सरं कोटीसहितमाचाम्लं करोति, श्रुतस्कन्ध:१ अष्टममध्ययनं प्रतिदिनमाचाम्लेन भुङ्क्ते, आचाम्लस्य कोट्याः कोटिं मीलयत्यत: कोटीसहितमित्युक्तम्, चतुर्मासावशेषे तु संवत्सरे विमोक्षम्, तैलगण्डूषानस्खलितनमस्काराद्यध्ययनायापगतवातमुखयन्त्रप्रचारार्थं पौनः पुन्येन करोतीति, तदेवमनयाऽऽनुपूर्व्या सर्व प्रथमोद्देशकः विधाय सति सामर्थ्य गुरुणाऽनुज्ञातो गिरिकन्दरं गत्वा स्थण्डिलं प्रत्युपेक्ष्य अथ अनन्तरं पादपोपगमनं करोति, इङ्गितमरणं वा / नियुक्तिः भक्तप्रत्याख्यानं वा यथासमाधि विधत्त इति गाथाचतुष्टयार्थः।। 269-272 // अनया च द्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्या अनशनस्वरूपः क्रमेण आहारं परितनुं कुर्वत आहाराभिलाषोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाह नि०- कह नाम सोतवोकम्मपंडिओजोन निचुजुत्तप्या। लहुवित्तीपरिक्खेवं वच्चइ जेमंतओचेव? // 273 // नि०- आहारेण विरहिओ अप्पाहारो य संवरनिमित्तं / हासंतो हासंतो एवाहारं निलंभिजा // 274 // कथं नामासौ तपःकर्मणि पण्डित: स्यात्?, यो न नित्यमुद्युक्तात्मा सन् वर्त्तनं वृत्ति:- द्वात्रिंशत्कवलपरिमाणलक्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपस्तद्भावं यो भुञ्जान एव न व्रजति कथमसौ तपः। कर्मणि पण्डित: स्यात्?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान् वा वासरान् स्थित्वा पुन: पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थं?-संवरनिमित्तं अनशननिमित्तम्, एवमसावुपवासैःप्रतिपारणकमल्पाहारतया च ह्रासयन् हासयन्नाहारमुक्तविधिना। पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः // 273-274 / / उक्तो नामनिष्पन्नो निक्षेपस्तन्नियुक्तिश्च, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं 0 निचजत्तप्पा (प्र०)। // 460 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy